372

अत्र मायादीनामिति । न परमेश्वरस्य माया छद्म, न शक्तौ मतिभ्रमः, न ध्वंसो वीर्यस्य, नवार्जुनादेवार्जुनस्यान्यत्वमिति विषयबाधात् ॥

मीलिते भ्रान्तिरस्तीति भ्रान्त्यनन्तरं मीलितलक्षणमाह—

वस्त्वन्तरतिरस्कारो वस्तुना मीलितं स्मृतम् ।
पिहितापिहिते चैव तद्गुणातद्गुणौ च तत् ॥ ४१ ॥

वस्त्वन्तरेति । वस्तूनामिति श्लिष्टषष्ठी । वस्त्वन्तरेण तिरस्कारे इति कर्मणि । वस्त्वन्तरस्य तिरस्कार इति कर्तरि । फलतः स एवार्थः । तथाचोत्कृष्टगुणेनापकृष्टगुणस्य तिरस्करणं न्यग्भावनमिति लक्षणार्थः । पृथग्रूपतिरस्कारेणैकरूपतापत्तिर्मीलितमुच्यते । तथाच कातन्त्रम्—‘मीलितं युक्तमुच्यते’ इति । अभिप्रायपूर्वस्तिरस्कारो द्विविधः—सिद्धाभिप्रायफलोऽसिद्धाभिप्रायफलश्च यथाक्रमं पिहितापिहिते । न चैतावता विशेषेण पृथग्भावः; सामान्यलक्षणव्याप्तत्वादवान्तरभङ्गीनामानन्त्याच्च । स रूपगुणेन तिरस्कारस्तद्गुणो विरूपगुणेनातद्गुणः । एतावपि मीलितविशेषाविति स्फुटम् ॥

अत्र मीलितमभिधीयमानगुणेन प्रतीयमानगुणेन च वस्तुना संभवति । तयोराद्यो(ऽभिधीयमानगुणेन) यथा—

‘एन्तोवि ण सच्चविओ गोसे पसरत्तपल्लवारुणच्छाओ ।
मज्जणतंबेसु मओ तह मअतंबेसु लोअणेसु अमरिसो ॥ १२६ ॥’
[आगच्छन्नपि न दृष्टः प्रातः प्रसरत्पल्लवारुणच्छायः ।
मज्जनताम्रयोर्मदस्तथा मदताम्रयोर्लोचनयोरमर्षः ॥]

अत्र मज्जनताम्रयोर्लोचनयोर्मदरागो मदताम्रयोः कोपानुरागः साक्षादभिधीयमानेनैव गुणेन तिरस्क्रियमाणो निदर्शित इत्यभिधीयमानगुणेन वस्तुनैतन्मीलितम् ॥

विभागमाह—अत्र मीलितमिति । एन्तोवीति । सच्चविओ दृष्टः । गोसे प्रातः । तस्याः मज्जनं स्नानम् । अत्र ताम्रपल्लवारुणरागपदाभ्यामभिधीयते गुणः ॥