ननु पिअदंसणेणेत्यादि कथं मीलितं, न ह्यत्र तिरस्कारः केनापि शब्देन प्रत्याय्यत इत्यत आह—नत्वमुकुलितयोरिति । यदि मुकुलिते न स्यातां कथं कुवलयं लक्ष्यत इति तर्कस्य तिरस्कारपर्यवसानादिति भावः । मूर्तिरूपादिकः प्रतीयमानो गुणः ॥