377
अभिप्रायानुकूल्येन प्रवृत्तिर्भाव उच्यते ।
सोद्भेदोऽथ निरुद्भेदश्चैकतश्चाभितश्च सः ॥ ४३ ॥

अभिमतमुक्तादिवस्तुचिन्तननियमादनन्तरं भावलक्षणम् । तदाह—अभिप्रायेति । अभिमतवस्तुचिन्ता अभिप्रायः । तदनुकूलतया प्रवृत्तिः क्रियालक्षणाभावः । अत एव सूक्ष्माद्भेदः । प्रवृत्तिप्रतिपादकेन स्वार्थप्रकाशनद्वारा प्रकाश्यमानोऽभिप्रायः क्वचित्पदान्तरवृत्तिसहकृतेन प्रकाश्यते, क्वचित्केवलेन । ताविमौ सोद्भेदनिरुद्भेदौ । मिथोऽनुबन्धविषयश्चायं चमत्करोति । तत्र प्रवृत्तिरुच्यमानानेन तस्योच्यते तयोर्वा । तदिदमाह—एकतश्चाभितश्चेति । अभिप्रायोद्भावनादशायां रूढः स्वादपदवीमासाद्य चमत्कारमावहति । अत एव तत्कार्ययोः प्रवृत्तेरनुभावरूपतया तद्यावानकुण्ठ इति हृदयम् (?) ॥

तत्रैकतः सोद्भेदो यथा—

‘गेह्ण पलोएह इमं विअसिअणअणा पिअस्स अप्पेइ ।
घरिणी सुअस्स पढमुब्भिण्णदन्तजुअलंकिअं बोरम् ॥ १३८ ’
[गृहाण पर्यालोकयेमं विकसितनयना प्रियायार्पयति ।
गृहिणी सुतस्य प्रथमोद्भिन्नदन्तयुगलाङ्कितं बदरम् ॥]

अत्र सुतस्य दन्तोद्गमादहमुपभोगयोग्यास्मीति गृहिण्या एवमभिप्रायः प्रकर्षविकासितनयनतयोद्भिद्यते; न पुनः पत्युरित्येकतः सोद्भेदोऽयं भावः ॥

अभितः सोद्भेदो यथा—

‘सालोए च्चिअ सूरे घरिणी घरसामिअस्स घेत्तूण ।
णेच्छन्तस्सवि पाए धुअइ हसन्ती हसन्तस्स ॥ १३९ ॥’
[सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा ।
अनिच्छतोऽपि पादौ धावयति हसन्ती हसतः ॥]

अत्र सालोक एव सूर्ये गृहपतेर्गृहागमनं गृहिण्याश्च यत्पादधावनं त्तदावाभ्यामद्य वेश्मनो न निर्गन्तव्यमिति भावः । स च द्वयोरपि हासेनाभित उद्भिद्यत इत्यभित्तः सोद्भेदोऽयं भावः ॥