378

एकतो निरुद्भेदो यथा—

‘सालिवणगोविआए उड्डीयन्तीअ पूसविन्दाइम् ।
सव्वङ्गसुन्दरी एवि पहिआ अच्छीइ पेच्छन्ति ॥ १४० ॥’
[शालिवनगोपिकाया उड्डाययन्त्याः शुकवृन्दानि ।
सर्वाङ्गसुन्दर्या अपि पथिका अक्षिणी एव प्रेक्षन्ते ॥]

अत्रातिसौन्दर्येण देवीभ्रान्त्या शालिवनगोपिकामालोकयतां पथिकानां तदक्षिनिरीक्षणेऽयमभिप्रायः—‘शालिवनतिरस्कारेण देवमानुषयोर्विशेषभूतः पभ्द्यामेव भूमिस्पर्शो भूम्यस्पर्शो वा न लक्ष्यत इति तदक्षिणी एव पश्यामो यदियं निमिषति तदा मानुषीयं यदि न निमिषति तदा देवीयम् ।’ इति सर्वाङ्गसुन्दर्या अपि पथिकानामेव जायमानो भावो नेह केनचित्कर्मणोद्भिद्यत इत्येकतो निरुद्भेदश्चायं भावः ॥

नेह केनचिदिति । तथा चात्र शब्दान्तरस्य व्यापारो नास्तीत्यर्थः ॥

अभितो निरुद्भेदो यथा—

‘गोलाअडट्ठिअं पेच्छिऊण गइबइसुअं हलिअसोह्वा ।
आढत्ता उत्तरिउं दुक्खुत्ताराइ पअवीए ॥ १४१ ॥’
[गोदातटस्थितं प्रेक्ष्य गृहपतिसुतं हालिकस्नुषा ।
आरब्धा उत्तर्तुं दुःखोत्तरया पदव्या ॥]

अत्रागच्छन्तीं हालिकस्नुषां दृष्ट्वा गृहपतिसूनोर्गोदावरीतटे यदवस्थानम्, यश्च तमवलोक्य तस्या दुरुत्तरमार्गेणावतरणारम्भस्तत्रायं तयोरभिप्रायो हस्तावलम्बदानेनावयोरङ्गसङ्गमः संपद्यतामिति । स चाभितो द्वयोरपि जायमानो नेह केनचित्कर्मणोद्भिद्यत इत्यभितो निरुद्भेदश्चायं भावः ।

हृद्यं सूक्ष्मं च भिद्येत न हि भावात्कथंचन ।
हृद्योदाहरणं तत्र तैरिदं प्रतिपाद्यते ॥ ४४ ॥