386

निषेधरूपं यथा—

‘निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः ।
न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् १५९’

अत्रोत्तरार्धोक्तनिषेधानुवादवर्धितव्युत्पत्तेर्वयस्याया योऽयमपवदमानबटुनिवारणोपदेशस्तस्य महान्तो नापभाषितव्या इति वाक्यार्थे तात्पर्यादयं निषेधरूप आगमः । तदेतदुभयमप्यवश्यानुष्ठेयत्वादुत्तमम् ॥

ननु 'न केवलं यो महतोऽपभाषते' इत्यादि वर्तमानापदेशात्कथं विधित्वमत आह—अत्रोत्तरार्धेति । अपभाषणस्य निन्दार्थवादेन निषेधविधिः कल्प्यते, तेन महान्तो नापभाषितव्या इति वचनव्यक्तिरुन्नीयत इति ॥

मध्यमं द्विधा । निर्दिष्टवक्तृकमनिर्दिष्टवक्तृकं च । तयोराद्यं यथा—

‘कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा ।
एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ १६० ॥’

अत्र जीवन्नरः पश्यति भद्रमित्ययमेवार्थो निर्दिष्टवक्तृकस्तदेतत्सर्वावाक्यानां विधिनिषेधयोः पर्यवसानात् प्राणेषणायां यतितव्यमिति विधिरूपमाप्तवचनम् ॥

अत्र जीवन्नर इति । एषा चिरंतनी लोकगाथा । तन्मूलत्वं ‘एति जीवन्तम्-’ इत्यादेरागमस्य । अत्रापि प्राग्वदेव स्तुत्यर्थवादेन जीवनाय यतितव्यमिति विधिः कल्प्यते । तदिदमुक्तं सर्ववाक्यानामिति ॥

द्वितीयं यथा—

‘अक्षे वसति पिशाचः पिचुमन्दे दिनपतिर्वटे यक्षः ।
विश्राम्यति पद्मे श्रीस्तिष्ठति गौरी मधूकतरौ ॥ १६१ ॥’

तदिदमनिर्दिष्टवक्तृकमनादिलोकप्रसिद्धिपरम्परायातमैतिह्यम् । अत्रापि सर्ववाक्यानां विधिनिषेधयोः पर्यवसानात्—‘तस्मादक्षं न सेवेत, पिचुमन्दं न कृन्तेत, वटं न छिन्द्यात्, पद्मं न मूर्ध्नि बिभृयात्, मधूकं