387 न पदा स्पृशेत्’ इत्यध्याहारो भवति । सोऽयं निषेधरूप आगमः । उभयमप्येतन्नावश्यानुष्ठेयमिति मघ्यमम् ॥

तदिदमनिर्दिष्टवक्तृकमिति । एतेनैतिह्यमागम एवान्तर्भूतमिति दर्शितम्; अज्ञातवक्तृकस्यागमस्यैव तथा प्रसिद्धेरिति । अत्रापीति । पिशाचवासादिभिरनुवादैः पूर्ववद्विधयः कल्प्यन्ते ॥

जघन्यं द्विधा । काम्यं निषिद्धं च । तयोः काम्यं यथा—

‘मुण्डइआचुण्णकसाअसाहिअं पाणणावणविईणम् ।
तेलं पलिअत्थणीणंवि कुणेइ पीणुण्णए थणए ॥ १६२ ॥’
[मुण्डितिकाचूर्णकषायसाधितं पाननावनवितीर्णम् ।
तैलं पतितस्तनीनामपि करोति पीनोन्नतौ स्तनौ ॥]

तदेतत्पूर्ववद्विधिरूपं काम्यमाप्तवचनम् ॥

मुण्डइआ इति । मुण्डितिका अलम्बुसा । कषायः क्वाथो जलम् । नावनं नस्यम् । काम्यमिति । पीनोन्नतस्तनकामनावतीभिरेव क्रियमाणत्वात् ॥

निषिद्धं यथा—

‘वयं बाल्ये बालांस्तरुणिमनि यूनः परिणता- वपीच्छामो वृद्धान्परिणयविधौ नः स्थितिरियम् ।
त्वयारब्धं जन्म क्षपयितुम135काण्डेन विधिना न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत् ॥ १६३ ॥’

तदेतन्निषेधरूपं निषिद्धमेवाप्तवचनम् । उभयमपि चैतन्मूलकारिभिः संसृज्येतेत्यादिदोषान्नानुष्ठेयमिति जघन्यम् ॥

त्वयारब्धमित्यादौ गणिकया सतीचारित्र्यवत्या न भवितव्यमिति स्फुटो निषे- धविधिर्जघन्यत्वं व्याचष्टे—उभयमपि चैतन्मूलकारिभिरिति ॥

सदृशात्सदृशज्ञानमुपमानं द्विधेह तत् ।
स्यादेकमनुभूतेऽर्थेऽननुभूते द्वितीयकम् ॥ ५० ॥
  1. ‘मनेनैकपतिना’ इति पाठः पुस्तकान्तरे