391 चित्राकारायास्तत्तच्छब्दाभिधेयताप्रतिपत्तिरुपमानमिति । कथं चित्रे कामादिपदप्रयोग इत्यित आह—आकृताविति । रेखोपरेखादिसंनिवेशे चित्रतुरगन्यायेनेति भावः ॥

मुद्रा यथा—

‘सचकितमिव विस्मयाकुलाभिः शुचिसिकतास्वतिमानुषाणि ताभिः ।
क्षितिषु ददृशिरे पदानि जिष्णोरुपहितकेतुरथाङ्गलाञ्छनानि ॥ १६८ ॥’

अत्र चक्रध्वजाङ्कितजिष्णुपादमुद्रादर्शनात्सेयममानुषी पादमुद्रा भवतीति संज्ञासंज्ञिसंबन्धप्रतिपत्तिस्तदिदमननुभूतार्थविषयमुपमानमेव मुद्रेत्युच्यते । यदपि चादृष्टेऽपि जिष्णुपदे मृगीदृशामीदृशः स इत्यनुमानज्ञानं तदप्युपमानार्थनिबन्धनमेव । यदाह—

‘अपि चास्त्यनुमानेऽपि सादृश्यं लिङ्गलिङ्गिनोः ।
पदेन यत्र कुब्जेन कुब्जपादोऽनुमीयते ॥ १६९ ॥’

सचकितेति । ननु चरणमुद्रया जिष्णुचरणानुमानमत्र प्रतिभाति तत्कथमुपमानेऽन्तर्भाव इत्यत आह—यदपि चेति । अत्राविशेषस्य चरणविशेषप्रतिबन्धे सत्यपि सदृशात्सदृशज्ञानमुत्पन्नं [त्कटं] तादृशेन च व्यपदेशो भवतीत्यर्थः । एतदेव दार्वाचार्यसंमत्या द्रढयति—अपि चेति ।

प्रतिबिम्बं यथा—

‘दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।
वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कान्यपि चकार लज्जया ॥ १७० ॥’

अत्र यदा तावदेवं संबन्धग्रहः कीदृशं स्वं मुखं यादृशमादर्शे प्रतिबिम्बं तदालोकनाददृष्टेऽपि स्वमुखे येयमीदृशं मे मुखमिति प्रतिपत्तिस्तदिदमनुभूतार्थविषयम् । यदा पुनरित्थमाप्तोपदेशाद्यादृशं वस्तु तादृशमादर्शादौ प्रतिबिम्बं तदापि प्रियप्रतिबिम्बालोकनादिदं तन्मम प्रियप्रतिबिम्बमितीयं संज्ञासंज्ञिसंबन्धप्रतिपत्तिस्तदप्यननुभूतार्थविष-