अत्र त्वदास्येन्दू समौ दृष्ट्वेत्युपमानपूर्वकता अर्थापत्तेः प्रत्यक्षपूर्वता च शब्दत एव प्रतीयते । या च मिथः सादृश्यानुपपत्तिलभ्या लावण्यान्योन्यगामिता सापि तथाविधं विधातारमन्तरेण न संगच्छत इत्यादीहापि पूर्ववद्वाक्यार्थसामर्थ्यतोऽवगन्तव्यम् ॥