323

अत्र बलप्रत्युज्जीवनमरणक्रिययोः सप्तमीवाच्यनैमित्तिकाधिकरणकारकभावेन हनूमानाविशन्प्रयोजको भवतीति क्रियाविष्टोऽयं प्रयोजको नाम कारकहेतुभेदः ॥

तस्मिञ्जीवतीति । जीवनमरणयोर्बलस्यैव स्वातन्त्र्यं हनूमान्प्रयोजयति । प्रयोजकता चास्य (ते एव) जीवत्युज्झितप्राणे इति पदाभ्यामुपात्ता । कतभत्कारकमिदं भवतीत्याह—सप्तमीवाच्येति । ननु च—‘अङ्गुल्यग्रे मदकलघटान्दर्शयन्तीव धूर्ता’ इत्यादौ काल्पनिकादावपि सप्तमीभावात्कथं कारकतेत्यत आह—नैमित्तिकेति । अन्यस्यासंभवादिति भावः ॥

स एव क्रियानाविष्टो यथा—

‘मानयोग्यां करोमीति प्रियस्थानस्थितां सखीम् ।
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा ॥ २४ ॥’

अत्र मानाभ्यासक्रियाया भ्रूभङ्गजिह्माक्षिप्रेक्षणादिरूपाया आत्मन्येवात्मनः समावेशो न भवतीति क्रियानाविष्टोऽयमिति शब्दाभिधेयप्रयोजको नाम कारकहेतुभेदः ॥

मानयोग्यामिति । भ्रूभङ्गजिह्माक्षिस्फुरिताधरादिप्रेक्षणारूपायां मानाभ्यासक्रियायामपि बालायाः स्वातन्त्र्यं, तादृशीं तु तामिति शब्दनिर्देश्योऽभिप्रायविशेषः प्रयुङ्क्ते । तस्य तु न क्रियान्तरमुपात्तम् । उपात्तायास्तु मानक्रियायाः स्वात्मनि समावेशोऽनुपपन्नः । अभिप्रायोऽपि हि व्यापारप्रचयरूपक्रियान्तर्भूत एव । यदाह महाभाष्यकारः—‘यत् किंचित्तदभिसंधिपूर्वकं प्रेषणमध्येषणं वा तत्सर्वं पच्यर्थ’ इति । स्मरणादिकं चास्य व्यापारः संभवतीत्यतो नाकारकत्वं वाच्यम् । तदेतदभिसंधायाह—आत्मन्येवात्मन इति ॥

द्वितीया च तृतीया च चतुर्थी सप्तमी च यम् ।
क्रियानाविष्टमाचष्टे लक्षणं ज्ञापकश्च सः ॥ १४ ॥

स द्वितीयावाच्यो यथा—

‘तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः ।
प्रवालशोभा इव पादपानां शृङ्गारचेष्टा विविधा बभूवुः ॥ २५ ॥