325

अत्र वपुषा चतुर्भुजो मुखेन त्रिलोचनस्तेजसा रविरित्यङ्गविकारैरङ्गिनो विकृतिर्लक्ष्यते यथाक्ष्णा काण इति ॥

तृतीयावाच्य एवेति । सूत्रेऽङ्गपदेनाङ्गी लक्ष्यते । तस्य च संबन्धिनियमादङ्गवाचिनस्तृतीया भवति । अङ्गं च द्विविधमाजानिकमौपचारिकं च द्वयमपीह विवक्षितं विकारादिकं चेत्थंभूतलक्षणमेवेदम् । अत एव सूत्रक्रमो नाद्दत इत्याशयवान्व्याचष्टे—अत्र वपुषेति । विकृतिरवस्थान्तरप्राप्तिः ॥

चतुर्थीवाच्यमुत्पातलक्षणं यथा—

‘गोनासाय नियोजितागदरजाः सर्पाय बद्धौषधिः कण्ठस्थाय विषाय वीर्यमहिते पाणौ मणीन्बिभ्रती ।
भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा रक्षत्वद्रिसुता विवाहसमये प्रीता च भीता च वः ॥ २८ ॥’

अत्र गौर्या विवाहमङ्गलानौचित्येनोत्पातरूपैरगदरजोनियोगादिभिर्भगवद्गता गोनासादयो ज्ञाप्यन्ते, यथा वाताय कपिला विद्युदिति । ततश्चोत्पातेन ज्ञापितेचेति संबन्धस्योभयनिष्ठत्वात्तादर्थ्य इव लक्ष्यवाचिनश्चतुर्थी न लक्षणवाचिनः । तृतीयाविषयापहारादेकयैव च विभक्त्योभयगतस्यापि संबन्धस्य राज्ञः पुरुष इतिवदुक्तत्वात्तृतीयापि न भवति ॥

गोनासायेति । ननूत्पातेनाविष्टेन यज्ज्ञाप्यते तत्र चतुर्थीति लक्षणमेवास्या वाच्यं प्रतिभाति, नैतत् । लक्ष्यलक्षणभावोऽसावभिधीयते न तु लक्ष्ये . . . . . । ततश्च यतो विधीयते तस्य लक्षणीयतामर्थादितरस्य लक्षणतां बोधयतीति । अगदरजःप्रभृतयस्तु कथममङ्गलरूपा इत्यवशिष्यते । तत्राह—अत्र गौर्या इत्यादि । ननु तथापि लक्षणवाचिन एव चतुर्थीति कथमवसितभित्यत आह—ततश्चेति । यथा तादर्थ्यस्योभयनिष्ठत्वेऽपि कङ्कणाय कनकमित्यत्र कार्यवाचिन एव चतुर्थी न तु कारणवाचिनः, तथेहापि संबन्धस्योभयाश्रयत्वेऽपि लक्ष्यवाचिन एव चतुर्थी नतु लक्षणवाचिन इत्यर्थः । तर्हि तृतीया कथं न भवतीत्यत आह—एकयैव चेति । संबन्धस्य संबन्धिनावेव विशेषस्तेन लक्षणमपि चतुर्थ्येव प्रतिपादयत्यत आह—उक्तार्थत्वात्कथं तृतीया न भवतीति शुद्धप्रातिपदिकार्थाभिधाने प्रथमेति भावः ॥