327

अत्र विद्यानभ्यासादेः प्रागभावस्य व्यसनादिकारणत्वम् ॥

प्रध्वंसाभावो यथा—

‘गतः कामकथोन्मादो गलितो यौवनज्वरः ।
गतो मोहश्च्युता तृष्णा कृतं पुण्याश्रमे मनः ॥ ३२ ॥’

अत्र कामकथोन्मादगमनादेः प्रध्वंसाभावस्य पुण्याश्रमानुसन्धानकारणत्वम् ॥

अनभ्यासेनेति । यावद्विद्यां नाभ्यस्यन्ति तावन्न धीमद्भिः संसृज्यन्ते, यावच्चाक्षाणि न निगृह्णन्ति तावव्द्यसनमिति विवक्षितम् । तेन नात्यन्ताभावसंकरः । आराध्यास्त्वाहुः—‘शिक्षापरस्यास्य श्लोकस्याप्यन्यप्रयोजनकतया नात्यन्ताभावसंकरः’ इति ॥

इतरेतराभावो यथा—

‘वनान्यमूनि न गृहाण्येता नद्यो न योषितः ।
मृगा इमे न दायादास्तन्मे नन्दति मानसम् ॥ ३३ ॥’

अत्र वनानि अमूनि न गृहाणीत्यादेरितरेतराभावस्य मनःप्रमोदकारणत्वम् ॥

वनान्यमूनीति । इदमिदं न भवतीति प्रतीतिसाक्षिक एवान्योन्याभावः । वैधर्म्यं तु भेदाख्यमलंकारान्तरं किंचिद्धर्ममन्तर्भाव्यैव स्वरूपस्यापि भेदव्यवहारपात्रता ॥

अत्यन्ताभावो यथा—

‘अत्यन्तमसदार्याणामनालोचितचेष्टितम् ।
अतस्तेषु विवर्धन्ते निर्विबन्धा विभूतयः ॥ ३४ ॥’

अत्रानालोचितचेष्टितस्यात्यन्ताभावो विभूतीनां निर्विघ्नवृद्धिहेतुः । एतेनाभावाभावोऽपि व्याख्यातः ।