313 तरूपमात्रस्यैव जातित्वादित्यत आह—तेषु सेति । विशेषेण शोभाहेतुरेव ह्यलंकारः । अस्ति चात्र तथाभाव इति भावः ॥

तत्र स्वरूपं द्विधा । शरीरावयवसंनिवेशलक्षणमतादृशं च । आद्यमपि बुद्धि- कारितमतथाभूतं च । तदेतदाह—

तत्र स्वरुपं संस्थानमवस्थानं तथैव च ।
वेषो व्यापार इत्याद्यैःप्रभेदैर्बहुधा स्थितम् ॥ ७ ॥

तत्र स्वरूपमिति । आदिपदेन वृक्षादिस्वरूपपरिग्रहः ॥

मुग्धाङ्गनार्भकस्तिर्यङ्गीचपात्राणि चाश्रयः ।
देशः कालश्च शक्तिश्च साधनानि च हेतवः ॥ ८ ॥

शक्तिः पदार्थानां सामर्थ्यम् । साधनानि कर्त्रादीनि षट् ॥

तेषु संस्थानं यथा—

‘स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्ययोनिम् ॥ १ ॥’

अत्र धनुर्धरेणैवमङ्गानि सम्यग्बुद्धिपूर्वकं स्थापनीयानीति संस्थानमिदं जातिभेदः ॥

अत्र धनुर्धरेणेति । तदुक्तम्—‘अपाङ्गे दक्षिणां मुष्टिं वामां विन्यस्य मस्तके । पादमाकुञ्चयेद्वामं लक्ष्ये निश्चललोचनः ॥’ इति । अत्र सर्वस्यैव धनुर्धरस्यैवंविधशरीरावयवसंनिवेशो भवति न कामस्यैवेति नाश्रयविशेषो विवक्षितः । एवमुत्तरत्रापि ॥

अवस्थानभेदेन यथा—

‘पादावष्टम्भनम्रीकृतमहिषतनोरुल्लसद्बाहुमूलं शूलं प्रोल्लासयन्त्याः सरलितवपुषो मध्यभागस्य देव्याः ।
विश्लिष्टस्पष्टदृष्टोन्नतिविरलवलिव्यक्तगौरान्तराला- स्तिस्त्रो वः पान्तु लेखाः क्रमवशविकसत्कञ्चुकप्रान्तमुक्ताः ॥ २ ॥’