349

व्यत्यय इति । वस्तुस्थितिविपर्यासवचनं परिवृत्तिरिति स्फुटमेव लक्षणम् ॥

सा त्रिधा व्यत्ययवती तथा विनिमयात्मिका ।
तृतीया चोभयवती निर्दिष्टा काव्यसूरिभिः ॥ ३० ॥

सा त्रिधा-एकस्थानस्थितस्य वस्तुनः स्थानान्तरप्राप्तिवचनेन, दानप्रतिदानवचनेन, उभयवचनेन वा । तदाह—सा त्रिधेति ॥

सर्वत्र मुख्यवृत्त्या गौणवृत्तिव्यपाश्रयेण वा तथाभावोक्तिरिति षट्प्रकारत्वं दर्शयति—

त्रिधापि चासौ मुख्यामुख्यभेदाद्द्विधाभूय षोढा संपद्यते ।

तासु व्यत्ययवती मुख्या यथा—

‘कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः ॥ ७८ ॥’

अत्र यत्कुमुदवनादीनामपश्रीकत्वादिकं यच्चाम्भोजखण्डादीनां श्रीमत्त्वादिकं मुख्यमेव प्रातरुपलभ्यते, सेयं व्यत्ययवती मुख्या नाम परिवृत्तिः ॥

त्रिधापि चासाविति । कुमुदवनमिति । कुमुदवनादुलूकाद्धिमरश्मेः श्रीमत्त्वं प्रीतिरुदयश्चापसृतानि प्राप्तानि पुनरम्भोजखण्डचक्रवाकीहिमांशूनामितिव्यक्तो व्यत्ययः । मुख्यत्वं ग्रन्थ एव व्यक्तम् ॥

व्यत्ययवत्यमुख्या यथा—

‘जो तीअ अहरराओ रत्तिं उव्वासिओ पिअअमेण ।
सोच्चिअ दीसइ गोसे सवत्तिणअणेसु सङ्कन्तो ॥ ७९ ॥’
[यस्तस्या अधररागो रात्रावुद्वासितः प्रियतमेन ।
स एव दृश्यते प्रातः सपत्नीनयनेषु संक्रान्तः ॥]

अत्र प्रियतमेन रात्रावुद्वासितस्याधररागस्येयं सपत्नीलोचनेषु संक्रान्तिः ॥