446

अत्र मुखलक्षणे लोचनलक्षणे चैकस्मिन्नेव पद्मलक्षणं भ्रमरलक्षणं चापरमपि वस्तु प्रतीयमानसादृश्यमाशङ्क्यते सोऽयमप्येकविषय एव संशयः ॥

किमित्यादि । हे घनस्तनि कठिनकुचे, त्वां पश्यतो मम चित्तं दोलायते संशयारूढं भवति । तदेवाह—अन्तर्मध्ये भ्रान्तः कृतभ्रमणोऽलिर्भ्रमरो यत्र तत्किं पद्मम् । लोलमीक्षणं चक्षुर्यत्र तादृशं तव मुखं किमिति दोलायते दोलेवाचरति । क्यङ् क्यष् वा । दोलाचित्तयोरुभयकोटियोगित्वेन साम्यम् । अत्र सादृश्यं प्रतीयमानं प्रत्यक्षेण । सुगममितरत् ॥

अनेकवस्तुविषयो द्विधा शुद्धो मिश्रश्च । तयोः प्रतीयमानसादृश्यः शुद्धो यथा—

‘वाली भंभुरभोली(भम्भलभेली)150 उल्लसिअणिअंसिणी गहणं सुणिअ विनिक्कन्ता णिद्दाए भे(भ)म्भली151 ।
रहुवि तीअ मुहु जोहई पुण जोहई गअणु भुल्लल्लेओ ण हु आणई दोण्हवि चन्दु(न्द)कं 152वणु(णे) ७५’
[बाला मूर्खचेट्युल्लसितनिवसना ग्रहणं श्रुत्वा विनिष्कान्ता निद्रया जडा ।
राहुरपि तस्या मुखं पश्यति पुनः पश्यति गगने भ्रान्तिमान् न खलु जानाति द्वयोश्चन्द्रः कः ॥]

अत्र द्वयोः प्रतीयमानसादृश्ययोर्बालिकामुखचन्द्रयोरेकश्चन्द्र एव विशङ्कयत इति सोऽयमनेकविषयः शुद्धः संशयः ॥

वालीत्यादि । ‘बाली(ला) भुम्भुरभोली(?) स्खलितनिवसना ग्रहणकं श्रुत्वा विनिष्कान्ता निद्रया भेम्भली(जडा) । राहुरपि तस्या मुखं विलोकते पुनर्विलोकते गगने भ्रान्तो न खलु जानाति द्वयोश्चन्द्रः कः ॥’ इह बालिका भुम्भुरभोली अज्ञा ।

  1. ‘आणतरिचेडिआ भेली’ इति, ‘भम्भलसद्दो अप्पिअजडेसु’ इति च देशीनाममाला
  2. ‘आणतरिचेडिआ भेली’ इति, ‘भम्भलसद्दो अप्पिअजडेसु’ इति च देशीनाममाला
  3. ‘वणे’ इति विकल्पार्थे निपातः