450

तत्राभिधीयमानौपम्यवती यथा—

‘गिम्हे दवग्गिमसिमइलिआइं दीसन्ति विज्झसिहराइं ।
आससु पउत्थवइए ण होन्ति णवपाउसब्भाइं ॥ ८० ॥’
[ग्रीष्मे दावाग्निमसीमलिनानि दृश्यन्ते विन्ध्यशिखराणि ।
आश्वसिहि प्रोषितपति के न भवन्ति नवप्रावृडभ्राणि ॥]

अत्र नवप्रावृडभ्राणां विन्ध्यशिखरैरभिधीयमानसादृश्यैरपह्नुतत्वादभिधीयमानौपम्यवत्यपह्नुतिः ॥

गिम्हे इत्यादि । ‘ग्रीष्मे दावाग्निमसीमलिनितानि दृश्यन्ते विन्ध्यशिखराणि । आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृडभ्राणि ॥’ इह विरहिणी दावाग्निना दिग्धे विन्ध्ये मेघभ्रान्त्या आर्ता सख्या समाश्वास्यते—ग्रीष्म इति । हे विरहिणि, विन्ध्यशिखराणि ग्रीष्मे वनाग्निना श्यामितानि दृश्यन्ते । नतु नूतनवर्षाकालीन(लिक)मेघा अमी भवन्तीति समाश्वासं कुरु । अत्र श्यामिकया विन्ध्यशिखरनवमे घयोः साम्यमभिहितमत औपम्यवतीयम् ॥

प्रतीयमानौपम्यवती यथा—

‘न केतकीनां विलसन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः ।
तडिल्लतेयं न चकास्ति चञ्चला पुरः स्मरज्योतिरिदं विजृम्भते ८१’

अत्र केतकीसूचीनां विधिविहसितैः प्रतीयमानसादृश्यैस्तडिल्लतायाश्च स्मरज्योतिषापह्नुतत्वादियं प्रतीयमानौपम्यवत्यपह्नुतिः ॥

नेत्यादि । केतकीनां सूचयोऽग्राणि न विलसन्ति शोभन्ते । हन्त विषादे । अयं विधिः स्रष्टा प्रवासिनः पान्थान् हसत्युपहसति । केतकीसूचीरूपेण । इयं चञ्चला चपला तडिल्लता न शोभते । पुरोऽग्रे इयं स्मरदीप्तिंर्विजृम्भते प्रकाशते । 'सूच्यग्रे सीमनद्रव्ये’ इति विश्वः । अत्र किंचित्प्रकाशेन केतकीसूचीविधिहसितयोः साम्यप्रतीतिरेवमितरत्र । औपम्यमप्युभयत्र व्यक्तमेव ॥

अनौपम्याभिधीयमानापह्नोतव्यवस्तुः पूर्वा यथा—

‘राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः ।
अवगच्छेयुरां ज्ञातमहो शीतानीलं वनम् ॥ ८२ ॥’

अत्र राजकन्यानुरागलक्षणस्य रोमाञ्चकारणस्य रक्षकावगतिहेतोः