दूर इत्यादि । ‘दूरप्रतिबद्धरागेऽवगूहमान एव दिनकरेऽपरदिशम् । असहमानेव क्लाम्यति प्रियतमप्रत्यक्षदूषणं दिनलक्ष्मीः ॥’ इहात्यर्थधृतलौहित्येऽत्यर्थंकृतानुरागे च दिनकरे सूर्ये वल्लभे चापरदिशं प्रतीचीमपरनायिकां चावगूहमाने संबध्नात्याश्लिष्यति च सति दिनशोभा वल्लभस्फुटदूषणमसहमानेव क्लाम्यति म्लाना भवति । अत्र च नायकत्वाद्यारोपणं रागादिपदैः श्लिष्टैः क्रियत इति निरुद्भेदता ॥