456

अत्रान्यधर्माणामेवान्यवस्तुन्यध्यासान्मेलितं यथा—

‘पल्लविअं विअ करपल्लवेहिं पप्फुल्लिअं विअ णअणेहिं ।
फलिअं विअ पीणपओहरेहिं अज्जाए लावण्णम् ॥ ९० ॥’
[पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितमिव नयनाभ्याम् ।
फलितमिव पीनपयोधराभ्यामार्याया लावण्यम् ॥]

अत्र पल्लवितमिव पुष्पितमिव फलितमिवेत्युत्प्रेक्षया लताधर्माणां लावण्यधर्मिणि धर्माध्यारोपो दृश्यते । करपल्लवादीनां चानुपात्तव्यापारहेतुत्वेन साधकतमत्वेन वा प्राधान्यं लक्ष्यते । सोऽयमन्यवस्तुनि पुनरन्यधर्माणामेवारोपेण मेलितं नाम समाधेरेव भेदो भवति । स तूद्देशे समाध्युक्तिरित्युक्तिग्रहणाल्लभ्यते ।

पल्लविअमित्यादि । ‘पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितमिव नयनाभ्याम् । फलितमिव पीनपयोधराभ्यामार्याया लावण्यम् ॥’ इहार्याया गृहपतिपुत्र्या नायिकाया लावण्यं सौकुमार्यं हस्तपल्लवाभ्यां पल्लवितमिव नेत्राभ्यां फुल्लितमिव पीनस्तनाभ्यां फलितमिवास्ति । अध्यारोपे बीजमाह—उत्प्रेक्षयेति । तर्हि करपल्लवादीनामध्यारोपाद्बहिर्भाव एव भवेदत आह—करेति । अनुपात्तोऽनुक्तो यो व्यापारोऽध्यासविषयस्तद्धेतुत्वेन तदुपस्थितिकारणत्वेन तत्करणत्वेन वा । अत एव कर्त्रपेक्षया प्रधानतया स्वातन्त्रेणान्वयस्तेषामित्यर्थः । तर्हि समाध्युद्देशेऽनुद्देशः कथमस्त्यत आह—स त्विति । समाध्युक्तिरित्यत्र समाधिरिति कर्तव्ये उक्तिग्रहणमधिकार्थसूचकमित्युक्तिपदेनैव मेलितोद्देशः कृत इत्यर्थः ॥

धर्माणां धर्मिणश्च यथा—

‘देहो व्व पडइ दिअहो कण्ठच्छेओ व्व लोहिओ होइ रई ।
गलइ रुहिरं व्व संझा घोलइ केसकसणं सिरम्मिअ तिमिरम् ॥ ९१ ॥’
[देह इव पतति दिवसः कण्ठच्छेद इव लोहितो भवति रविः ।
गलति रुधिरमिव संध्या घूर्णते केशकृष्णं शिर इव तिमिरम् ॥]

अत्र देहादयो यथोक्तक्रियावन्तो जन्तुवधक्रियायां निबद्धा दिवसादिभिरुपमेया दिवसावसानक्रियायां मेलितास्तदेतत् गुणक्रियावतां