467

गुणोत्प्रेक्षा यथा—

‘पल्लविअं विअ करपल्लवेहिं पप्फुलिअं विअ णअणेहिं ।
फलिअं विअ पीणपओहरेहिं अज्जाए लावण्णम् ॥ १०५ ॥’
[पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितमिव नयनाभ्याम् ।
फलितमिव पीनपयोधराभ्यामार्याया लावण्यम् ॥]

अत्र करपल्लवादिरूपेणान्यथावस्थितस्याङ्गलावण्यलक्षणस्य यदेतत् पल्लवितत्वादिरूपेणान्यथोत्प्रेक्षणं सेयमुत्प्रेक्षा गुणोत्प्रेक्षेति भवति ।

पल्लविअमित्यादि । विवृतेयं समाध्यलंकारे । अत्र सौन्दर्यस्य गुणस्य पल्लवितत्वादिना कल्पनं गुणोत्प्रेक्षा ॥

क्रियोत्प्रेक्षा यथा—

‘सेनागजाः 163स्वकरपुष्करलेखनीभिर्गण्डस्थलान्मदमषीं मुहुराददानाः ।
मन्ये नरेन्द्र तब तोयधितीरतालीपत्रोदरेषु विजयस्तुतिमालिखन्ति ॥ १०६ ॥’

अत्र सेनागजानां गण्डस्थलेभ्यो लेखन्याकारैः करैर्मषीरूपस्य मदपयसो यदादानम्, यश्चास्य तीरतालीपत्रोदरेषु महावर्णतया निक्षेपः स उक्तरूपेणान्यथोत्प्रेक्ष्यत इति सेयमुत्प्रेक्षा क्रियोत्प्रेक्षा भवति ।

सेनेत्यादि । हे नरेन्द्र, सेनागजास्तव विजयस्तुतिमालिखन्तीति मन्ये । कीदृशाः । स्वकराणां हस्तिहस्तानां यानि पुष्कराण्यग्राणि तान्येव लेखन्यः 164काप इति ख्यातास्ताभिर्गण्डस्थलात् मदमेव मषीं वारंवारमाददाना गृह्णन्तः । कुत्र लिखन्तीत्यत आह—समुद्रतीरतालपत्रमध्येषु । मन्येशब्द उत्प्रेक्षाव्यञ्जकः । ‘पुष्करं करिहस्ताग्रे’ इति विश्वः । न च लिखेः कुटादिपाठात् ङित्त्वे गुणाभावे लिखनीति स्यादिति वाच्यम् । ‘रद विलेखने’ इति निर्देशेन ङित्त्वविधेरनित्यत्वबोधनात् । अत एव ‘लेखनीकृतकर्णस्य कायस्थस्य न विश्वसेत् ।’ इत्यादिप्रयोगाः । ‘लेखनी

  1. मूलसंमतस्तु ‘पल्लव’ इति पाठः
  2. भाषान्तरशब्दोऽयम्