धीरं वेत्यादि । "धैर्यमिव जलसमूहं तिमिनिवहमिव सपक्षपर्वतलोकम् । नदीस्रोतांसीव तरङ्गान् रत्नानीव गुरुकगुणशतानि वहन्तम् ॥" इह समुद्रं कीदृशम् । धैर्यमिव जलसमूहं वहन्तम्, तिमिनिवहमिव मत्स्यविशेषसमूहमिव सपक्षं पक्षयुक्तम्, स्वपक्षं स्वमित्रं वा पर्वतलोकं मैनाकादिकं वहन्तम्, नदीप्रवाहानिव तरङ्गान् वहन्तम्, रत्नानीव गुरुकगुणशतानि महत्त्वादीनि वहन्तम् ॥ ‘अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः ।’ इति रामायणम् । ‘समूहेऽपि मतो लोकः’ इति रत्नकोषः । गुरुकेति स्वार्थे कन् । अत्र धैर्यजलसमूहादीनां मिथः सादृश्यं व्यक्तमेव प्रतीयमानमिवशब्देन द्योत्यते, साहित्यं च वाक्यार्थतया गम्यत इति सहोक्तिरियं सादृश्यवती ॥