निर्यतेत्यादि । दीपकः प्रशस्तदीपश्च मदनः कामश्चाधिकं दिद्युते दीप्तो बभूव । कीदृशः । निर्यता गच्छता सेवकेन सख्यादिना च बोधितः प्रकाशितो जागरितश्च । स्फूर्जमाना स्फुरन्ती रुचिर्दीप्तिरनुरागश्च यस्य सः । उल्लसन्ती दशा वर्तिरवस्था च स्य सः । द्वारे गृहद्वारे मदनबोधकभावे च संवलनं मिलनं तेन मांसलः स्फीतः । दीपक इति प्रशंसायां कन् । दिद्युत इति ‘द्युत दीप्तौ’ इत्यस्य लिटि रूपम् । 486 अत्र चकाराभ्यां द्रव्ययोरेकक्रियानिवेशनात्समुच्चयः । यदि समुच्चयेन निवेशनं न स्यात्तदा दोषमाह—तेनेति । अन्योन्यनिरपेक्षतया द्विवचनं द्वन्द्वश्च स्यादित्यर्थः ॥