487 चाकरेणैकस्यामुवासेति क्रियायां समुच्चयेन निवेश्यन्ते । तेन गुणेषु बहुवचनं न भवति, करुणाकृतज्ञतादीनां द्वन्द्वसमासश्च न भवति यस्मिन्नित्यपेक्षायां चायमेव गुणानां द्रव्यसमुच्चयो भवति ॥

अप्राकृत इत्यादि । स नृपतिर्विस्मयाय कथं नास्तु । कीदृशः । अप्राकृतोऽनीचः । महाजन इति यावत् । ‘नीचः प्राकृतश्च पृथग्जनः’ इत्यमरः । यस्मिन् करुणा दया, कृतज्ञता विज्ञता, लक्ष्मीः संपत्तिः, सात्त्विकगुणेन जाज्वल्यमानं तेजश्च, धर्मः सुकृतं, मानो विनयः, पराक्रमश्चोवास वसति स्म । इह कारुणिकस्य करुणामात्रप्रवृत्त्या कृतज्ञतायाः साहजिकोऽभाव इति । तथा चास्मिन्नुभयमिति महाजनतास्य सूचिता । तथाप्यलक्ष्मीकस्य न किमपि श्लाघाविषय इति सलक्ष्मीकतोक्ता । तथापि निःसात्त्विकस्य कुतो महाजनत्वमतः सात्त्विकगुणाधिक्यमुक्तम् । निष्प्रतापस्य सर्वमुक्तं लक्षणलशोभाकरमेव भवतीति तेजस आधिक्यमुक्तम् । भवतु यथोक्तगुणसंपत्तिः, अधार्मिके सर्वे गुणा विगुणायन्ते । तदर्तमाह—धर्मश्चेति । मानविनयपराक्रमाः प्रत्येकं महापुरुषे विशेषगुणा इति तेऽप्युक्ता इति । अत्रानेकपदाश्रितचकारैरेकाक्रियायां नानागुणाः समुच्चयेन निवेशिता इति समुच्चयता ॥ तदभावे दोषमाह—तेनेति । असमुच्चयनिवेशे करुणादय ऊषुरिति स्यादित्यर्थः । यस्मिन्निति । यदि यस्मिन्नित्यैकद्रव्ये गुणसमुच्चयविवक्षात्र तदा सोऽपि भवतीत्यर्थः ॥

बहुपदाश्रय एवोत्तरपदाश्रितद्योतकत्वेन गुणानां क्रियासमुच्चयो यथा—

‘रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकाशि ।
चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमद्रमणेषु ॥ १३८ ॥’

अत्र रूपं प्रेम चाटु चेति बहवो गुणा उत्तरपदाश्रयेण चकारेणागमदित्येकस्यां क्रियायां समुच्चयेन निवेश्यन्ते, तेनागमन्निति बहुवचनं द्वन्द्वो वा न स्यात् । कार्मणत्वमित्यपेक्षायां चायमेव गुणानां जातिसमुच्चयो भवति ॥

रूपमित्यादि । आसां स्रीणां रमणेषु विषये इदमिदं कार्मणत्वं वशीकरणे मूलकर्मत्वमागमत् ययौ । अप्रतिविधानेनानिर्बन्धेन । सहजेनेति यावत् । मनोज्ञरूपं कार्यमनपेक्ष्य विकाशि सहजप्रकाशवत्प्रेम्, अकृतकः स्वाभाविकः संभ्रम