489

आदित्येत्यादि । अनिलो वायुः, अनलोऽग्निः द्यौराकाशः, आपो जलम्, हृदयम्, यमः, अहो दिनम्, उभे प्रातःसायम्, धर्मो विधाता चायं जनस्य वृत्तं चरित्रं जानाति । आदित्यचन्द्रौ जानीत इति विभक्तिविपरिणामेनान्वयः । ‘धर्मो गुणादौ लोकेशे’ इति रत्नकोषः । अत्रादित्यादय उत्तरपदप्रतिपदनिवेशितचकारेणैकक्रियायां निवेशिता इति मिश्रता । तदभावे दोषमाह—तेनेति ।

अनुभयाश्रयस्तु समुच्चयोऽन्वाचयश्च न भवति । द्व्योरपि दीपकेन विषयापहारात् । तेनेतरेतरयोगसमाहारयोः स उदाह्रियते तत्रेतरेतरयोगो यथा—

‘सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु ।
गन्तुमुत्थितमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥ १४१ ॥’

अत्रोक्तम्, उपेक्षा, उत्थितमित्येते क्रियाद्रव्यविशेषा इतरेतरयोगेन मदविलासद्योतनक्रियायां निवेश्यन्ते; तेन द्योतयन्तीति बहुवचनं द्वन्द्वसमासश्च तद्विवक्षायां स्यात् । न चेह द्योतकश्चकार उत्तरपदे प्रतिपदं वा विद्यत इति सोऽयमनुभयाश्रयः समुच्चयमेदः ॥

अनुभयेति । यत्र द्विपदे बहुपदे वा चकारो नास्ति समुच्चयोऽन्वाचयोऽपि न भवति । दीपकलक्षणेन तस्य विषयीकरणादेकत्रवर्तिना क्रियादिवाचकपदेन सर्ववाक्योपकारकत्वस्य दीपकत्वात्, तादृशसमुच्चयान्वाचययोश्च तत्सत्त्वादित्याशयः ॥ सावशेषेत्यादि ।आसां स्त्रीणामेतानि मदविभ्रमं मत्तताविलासं द्योतयन्ति स्म । तान्याह —सहावशेषैरवशिष्टभागैर्वर्तते सावशेषं सखण्डं पदं यत्रेदृशमुक्तं वचनम् । खण्डाक्षरवचनमित्यर्थः । स्रस्तानि स्खलितानि यानि मालावस्त्रालंकरणानि तेषूपेक्षा असंवरणम् । अकारणतो हेतुं विनैव गन्तुं गमनं कर्तुमुत्थितमुत्थान च । उक्तमिति भावे क्तः । उत्थितमित्यपि भावे क्तः । अकारणत इति पञ्चम्यास्तसिः । अत्रोक्तादेर्वचनादिरूपक्रियात्मकस्य तदाश्रयस्य द्रव्यस्य मिथो योगेन प्रधानक्रियायां निवेशः । अत एव द्योतयन्तीति बहुवचनम् । समुच्चयस्वीकारे दोषमाह—द्वन्द्वेति ॥

समाहारो यथा—

‘वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने १४२’