493

अत्रापि योऽयं ‘अक्षिभ्रुवम्', ‘शरकार्मुकम्', इत्येतयोः ‘द्वन्द्वश्च प्राणितूर्यसेनाङ्गनाम् २।४।२’ इति, ‘वाङ्मनसाक्षिभ्रुव—५।४।७७’ इति च विशेषलक्षणयोगस्तेन धवखदिरपलाशमित्येवमादिषु नातिप्रसङ्गा भवति ॥

स्त्रीणामित्यादि । यत्र नगरे मनोभुवा कामेन तन्मुखे स्त्रीणां मुखेऽक्षिभ्रुवनिभं नेत्रभ्रूव्याज शरकार्मुकं न्यस्तमारोपितम् । स्त्रीणां हावैः शृङ्गारजक्रियामिर्निजकार्ये मनश्चापलादौ कृते सति । ‘हावाः क्रियाः शृङ्गारभावजाः’ इत्यमरः । अत्रापि विशेषलक्षणाभ्यामेव वक्रोक्तिता ॥ इति समुच्चयालकारनिरूपणम् ॥

आक्षेपालंकारनिरूपणम् ।

आक्षेपं लक्षयति—

विधिनाथ निषेधेन प्रतिषेधोक्तिरत्र या ।
शुद्धा मिश्रा च साक्षेपो रोधो नाक्षेपतः पृथक् ॥ ६४ ॥

विधिनेति । विधिना हेतुना प्रतिषेधेन वा हेतुना या प्रतिषेधस्योक्तिर्निर्वचनं सा आक्षेपः । रोधः पुनराक्षेप एवेत्याह—रोध इति । आक्षेपलक्षणेनैव गृहीतत्वाद्रोधो न ततो भिन्न इत्यर्थः ॥

तत्र विध्याक्षेपः शुद्धो यथा—

‘गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः ।
ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ १४७ ॥’

अत्र ‘गच्छ’ इत्यस्य विधिवाक्यस्य ‘ममापि जन्म तत्रैव भूयात्’ इत्याशिषानुकूलतयैव मरणसूचनान्निषेधः क्रियत इति शुद्धोऽयं विध्याक्षेपः ॥

गच्छेत्यादि । इह हे कान्त वल्लभ, चेद्यदि गच्छसि तदा गच्छ । विदेशमिति शेषः । मया न रोधः क्रियते । किंतु भवान्यत्र गतो भूयात्तत्रैव ममापि जन्म भूयादिति । परं वदामिति शेषः । अत्र गमनस्य विधिरूपस्य जन्म भूयादित्यनेन विधिरूपेणैव त्वयि गते मया मर्तव्यमिति मरणसूचनाद्विधिना गमनप्रतिषेधोक्तिः अन्यासंकरेण च शुद्धता ॥