500 क्रियासूत्तिष्ठमानो न रुध्यते कथमयं न जीवतीति । किं तर्हि कारणमेवाक्षिप्यते—‘तथापि नास्त्यस्य जीवितेऽध्यवसाय’ इति । सोऽयमाक्षेप एव न रोधः ॥

गमिआ इत्यादि । ‘गमिताः कदम्बवाता दृष्टं मेघान्धकारितं गगनतलम् । सोढो गर्जितशब्दस्तथापि खल्वस्य नास्ति जीविते आसङ्गः ॥’ इहास्य रामस्य तथापि जीविते प्राणधारणे आसङ्गोऽध्यवसायो नास्ति । खलु निश्चये वाक्यभूषायां वा । यद्यपि कदम्बपुष्पसंपर्किणो वाता गमिता नीताः दृष्टं मेघान्धकारयुक्तं गगनतलम्, गर्जितरूपः शब्दः सोढः श्रुतः । इहासह्यसहनेऽपि जीवितानध्यवसाये प्रेमातिशयो हेतुः । प्रयाणोचितकाले शरद्यपि यदि न गमनं स्यात्तदा प्रियासमागमो मे न स्यादिति बुद्धिः । यद्वा नेतव्यकालस्य घोरत्वाद्दुर्गवासरयोरध्यवसायः । यद्वा कदम्बवाता गमिताः, विकसदमलकमलवाताः कथं गमितव्याः । मोघान्धकारितं गगनतलं दृष्टम्, शरच्चन्द्रचन्द्रिकाधवलितं कथं द्रष्टव्यम् । गर्जितशब्दः सोढः, कलहंसकलरवः कथं सोढव्य इति विमर्शेनानध्यवसायः । यद्वा एतैरेवानर्थसार्थैः कदर्थिता व्यर्थप्रत्याशासमर्थना सीता यदि भृता स्यात्तदा मदीयाशानाश एव भवेदितिबुध्द्यानध्यवसायः । अत्र जीवनक्रियायामुपस्थितस्य न रोधः, किं तु कारणाक्षेप एवेत्याक्षेपता ॥

क्रियोद्यतस्यापि वारणे कारणानामन्यपरत्वे रोधो न भवति । यथा—

‘धनं च बहु लभ्यन्ते सुखं क्षेमं च वर्त्मनि ।
न च मे प्राणसंदेहस्तथापि प्रिय मा स्म गाः ॥ १५८ ॥’

अत्र यद्यपि यत्रोद्यतः प्रियो रुध्यते । प्रभूतार्थलाभादीनां कारणानां गमनपरत्वमेव न निवारणपरत्वम्; अतोऽयं न रोधः, किं तर्हि आक्षेप एव भवति ॥

धनमित्यादि । हे प्रिय, यद्यपि ते तव धनं बहु प्रचुरं लभ्यं प्राप्यम् । वर्त्मनि सुखम्; न दुर्गो मार्गः । क्षेमं कुशलं च चौराद्यनुपहतेः । न च मे प्राणसंशयोऽस्ति । तथापि त्वं मा गाः स्म मायासीः । ‘कुशलं क्षेममस्रियाम्’ इत्यमरः । अत्र प्रचुरधनलाभादिहेतूनां गमनपरत्वेनाक्षेपता ॥ इत्याक्षेपालंकारनिरूपणम् ॥