ते विरला इत्यादि । “ते विरलाः सत्पुरुषा येऽभण्यमाना घटन्ते कार्यालापम् । स्तोका एव तेऽपि द्रुमा येऽज्ञातकुसुमनिर्गमा ददति फलम् ॥” इह ते सज्जना विरलाः परिमिताः । अल्पा इति यावत् । ये कार्यार्थमालापमाज्ञामभण्यमाना घटन्ते कार्यारूढा भवन्ति, तेऽपि वृक्षाः स्तोका एवाल्पा एव येऽज्ञातपुष्पोद्गमाः सन्तः फलं ददति । अभण्यमाना इति णिज्गर्भत्वेन द्विकर्मकता । यद्वा कार्यालापे कार्यकरणे घटन्ते । कीदृशाः । अभण्यमाना अनुक्ताः । ‘आलापो वचने कृतौ’ इति शाश्वतः । अत्र हेतुहेतुमद्भावपुरस्कारेणोभयोरुपन्यासः ॥