505 विशेषोक्तिरिति लक्षणम् । एवं जात्यादावप्यादिपदाद्द्रव्यसंग्रहः । विशेषदर्शनायेत्यनेन विभावनातो भेद उक्तः । तत्र हि नातिशयो वाच्यः किंतु कारणान्तरम् । इह तु गुणादिप्रतिषेधेन पदार्थानामतिशय इति । गुणादीनां वैकल्यादर्शनेऽपि सा भवतीत्याह—वैकल्येति ॥

सा गुणवैकल्येन यथा—

‘न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः ।
तथापि जितमेवाभूदमुना भुवनत्रयम् ॥ १६५ ॥’

अत्र तीक्ष्णेनाकठोरेण चायुधेन पुष्पधन्वा त्रीणि जगन्ति विजयत इति तस्य प्रभावातिशयः प्रतीयते; सेयं प्रतीयमानविशेषहेतुर्गुणवैकल्यवती विशेषोक्तिः ॥

न कठोरमित्यादि । कामस्य प्रहरणं न कठिनं न वा निशितम् । तथाप्यमुना कामेन लोकत्रयं जितमेवासीत् । पुष्पधन्वन इत्यनेनाकठोरत्वमतीक्ष्णत्वं च दर्शितम् । पुष्पस्यैवासत्त्वात् । अत्र काठिन्यादिगुणवैकल्यमतिशयविजयप्रदर्शनायोक्तमिति गुणवैकल्यवतीयम् ॥

जातिवैकल्येन यथा—

‘न देवकन्यका नापि गन्धर्वकुलसंभवा ।
तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम् ॥ १६६ ॥’

अत्र देवकन्यकात्वाभावेऽप्येषा वेधसोऽपि तपोभङ्गं विधातुमलमिति वर्णनीयाया रूपातिशयः प्रतीयते; सेयं प्रतीयमानविशेषहेतुर्जातिवैकल्यवती विशेषोक्तिः ॥

न देवेत्यादि । एषा न देवकन्या नापि गन्धर्ववंशजा तथापि वेधसो ब्रह्मणोऽपि तपोभङ्गं विधातुमलं समर्था । अत्र देवत्वादिजातिनिषेधो विशेषस्तु मानुषीत्वेन तत्कार्यकरणम् ॥

क्रियावैकल्येन यथा—

‘न बद्धा भ्रुकुटिर्नापि स्फुरिंतो रदनच्छदः ।
न च रक्ताभवद्दृष्टिर्जितं च द्विषतां कुलम् ॥ १६७ ॥’