507 विषमाः सप्त, तथापि रविस्तेजस्वी जगत्त्रयमाक्रामति । ‘सप्ताश्वा नव दन्तिनः’ इति नीतौ निषेधः । आक्रामतीत्यत्रोत्क्रमणाभावात् ‘आङ उद्नमने १।३।४०’ इति न तङ् । अत्र रथादीनामेकदेशविकलतेति द्वितीयेयम् ॥

द्रव्यस्य योगायोगाभ्यामवैकल्येनापि क्वचिदेषा विशेषायाविशेषाय च यथा—

‘अयं तया रथक्षोभादंसेनांसो निपीडितः ।
एकः कृती शरीरेऽस्मिञ्शेषमङ्गं भुवो भरः ॥ १७० ॥’

अत्र ‘अयं तथा स्पृष्टोंऽसः स पुण्यवान्, तया चास्पृष्टं शेषमङ्गं मे निरर्थकम्’ इति योऽयमवैकल्यदर्शनेऽपि विशेषस्तेनैषाहेतुमत्यापि हेतुमता विशेष्यमाणा यथोक्ता विशेषोक्तिर्भवति । या पुनरिहोर्वश्यामितो वाक्याद्गुणादिवैशिष्ट्यावगतिः177 सा पर्यायोक्तिर्न विशेषोक्तिः ॥

अयमित्यादि । अयमंसो बाहुमूलं तया स्त्रिया रतिलोभान्निजांसेन निपीडित इत्येक एवायं ममाङ्गे कृती रम्यः । शेषमङ्गं भूमेर्भरो भारजनकम् । शेषशब्दः कर्मघञन्तो वाच्यलिङ्गः । अङ्गभरशब्दयोरजहल्लिङ्गतयान्वयः । अत्रावैकल्यदर्शनेऽपि विशेषोक्तेरियमन्या भवति । यद्यनेन वाक्येनोर्वश्या गुणविशेषवत्त्वज्ञानं तदोक्तलक्षणाभावात्पर्यायोक्तिरेवेत्याह—यत्पुनरिति ॥ इति विशेषालंकारनिरूपणम् ।

परिकरालंकारनिरूपणम् ।

परिकरं लक्षयति—

क्रियाकारकसंबन्धिसाध्यदृष्टान्तवस्तुषु ।
क्रियापदाद्युपस्कारमाहुः परिकरं बुधाः ॥ ७२ ॥

क्रियेति । क्रिया धात्वर्थः, कारकं कर्मादि, संबन्धी संबन्धवान्, सार्ध्यं सिसाधयिषितम्, दृष्टान्तो निदर्शनम्, वस्तु पदार्थः । एषु क्रियापदादेरुपस्कारः परिष्कारः परिकरः । साभिप्रायविशेषणेन विशेष्योक्तिः परिकर इति लक्षणम् ॥

  1. ‘विशिष्टावगतिः’ इति ख ग