दिन इति । सा गौरी दिने दिने प्रत्यहं परिवर्धमाना सती लावण्यमयान्कान्तिप्रधानान् विशेषानुत्कर्षान् पुपोष पुष्णाति स्म । कीदृशी । लब्धः प्राप्त उदय उपचयो यया सा । यथा चान्द्री लेखा कला प्राप्तोद्गमा प्रत्यहं वर्धमाना च सती कलान्तराणि अन्यान्या कला धत्ते ज्योत्स्नान्तराणि च धत्ते तथेत्यर्थः । लावण्यं ज्योत्स्नास्थानीयम्, विशेषः कलास्थानीयः । यद्वा कलान्तराणि कीदृशानि । ज्योत्स्ना अन्तरा गर्भे येषु तानि । यद्वा ज्योत्स्नाया अन्तरोऽवकाशो येषु तानि । 'लेखा स्याल्लिपिकलयोः’ इति विश्वः । चन्द्रमस इयं चान्द्रमसी । ‘तस्येदम् ४।३।१२०’ इत्यण् । ‘लावण्यं चारुता मता’ इति शाश्वतः । ‘गर्भावकाशभेदेष्वन्तरं वाच्यलिङ्गवत् ।’ इति मेदिनीकारः । इह पोषणरूपक्रियया वाक्यार्थयोरेकवाक्यता, सा च सकर्मकेति कर्तृकर्मणोः पृथगिवपदप्रयोगादनेकेवोपमेयम् ॥