अत्र ‘उष्ट्रासिका आस्यन्ते’, ‘हतशायिकाः शय्यन्ते’ इत्यमूभ्यां सामान्यविशेषोपचरितरूपो भावात्मा ण्वुलैव प्रत्याय्यते । स आख्याताभ्यां सामान्यरूपेण, ण्वुलन्ताभ्यां विशेषरूपेण । बहुवचनं चेह कुत्सातिशयार्थम् । याहि नामोष्ट्रस्य कुत्सावत्यो बहुप्रकारवत्यो वक्षःसु आसिकाः, याश्च हतानामतिशयवत्यस्तथाभूता एव भूयस्यः शायिकाः प्रतीतास्ताभिर्विशेषरूपाभिरियमासिका शायिका चोपमानोपमेयसंबन्धजनितभेदाभेदपरिग्रहाल्लकारेणापि बहुत्वेनैव प्रत्याय्यते । तेनोष्ट्रासिका इवासनानि, हतशायिका इव शयनानि क्रियन्ते भवन्तीति वाक्यार्थो भवति, सोऽयं यथोक्तः क्रियापरिकरः ॥