517 निशा यथा यथा समाप्यते स्वयं समाप्तिं याति । कर्मकर्तरि तङ् । तथा तथा शशिबिम्बं घूर्णते । कीदृशम् । वेपनशीलतरङ्गे प्रतिमया प्रतिबिम्बेन पतितम् । किंकर्तव्यमत्रेति विमूढं मुग्धमुदधेर्हृदयमिव । इवशब्द उत्प्रेक्षायाम् । अत्र तच्छब्दयच्छब्दयोर्वैपरीत्यम् । यथा शशिबिम्बं घूर्णते तथा निशा समाप्यत इति वक्तव्ये यथोक्तं विपरीतम् । तद्विशेषणयोगः क्रियाविशेषणान्तरयोगे वीप्साकारितः ॥

क्रियाविशेषणं कैश्चित्संबोधनमपीष्यते ।
संबन्धिभिः पदैरेव लक्ष्यन्ते लक्षणादयः ॥ ७४ ॥

तेषु संबोधनपरिकरो यथा—

‘धर्मस्योत्सववैजयन्ति मुकुटस्रग्वेणि गौरीपतेस्त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये ।
त्वत्तोयान्तशिलनिषण्णवपुषस्त्वद्वीचिभिः प्रेङ्खतस्त्वन्नाम स्मरतस्त्वदर्पितदृशः प्राणाः प्रयास्यन्ति मे ॥ १८३ ॥’

अत्र ‘भागीरथि’ इति संबोधनपदं ‘धर्मस्योत्सववैजयन्ति’ इत्यादिभिः परिष्क्रियते । तत्र यथाकथंचिदप्युच्यमानोऽर्थः क्रियाविशेषणत्वं190 नातिक्रामतीत्ययमपि क्रियापरिकरः ।

धर्मस्येत्यादि । हे भगीरथि भगीरथावतारिते हे गङ्गे, त्वामहं प्रार्थये धर्मस्योत्सवे वैजयन्ति पताकारूपे, हे भवानीपतेर्मुकुटमालारूपा वेणी प्रवाहो यस्यास्तादृशे, हे रत्नाकरस्य समुद्रस्य पत्नि जाये, हे जह्नुमुनिकन्यके । प्रार्थनाविषयमाह—मम प्राणाः प्रयास्यन्ति गमिष्यन्ति । कीदृशस्य । त्वत्तोयस्यान्ते समीपे शिलानिषण्णाङ्गस्य त्वद्वीचिभिः त्वत्तरङ्गैः प्रेङ्खतश्चलतस्त्वदीयं नाम स्मरतस्त्वदर्पितदृशस्त्वयि दत्तनेत्रस्य च । ‘वैजयन्ती पताकायाम्’ इति मेदिनीकारः । ‘अन्तः शेषेऽन्तिके स्त्रियाम्’ इति च । अत्र स्फुटक्रियाविशेषणत्वं नास्तीत्यत आह—तत्रेति । विशिष्टायाः प्रार्थनकर्मतया विशेषणस्याप्यन्वय इति यथाकथंचिदित्यस्यार्थः ॥

  1. ‘क्रियाविशेषणम्’ क ख