520

प्रत्यक्षेत्यादि । तुभ्यं नमः । कीदृशाय । प्रत्यक्षो वस्तूनां पदार्थानां विषयो रूपादिकं यस्य तस्मै । यद्वा प्रत्यक्षौ वस्तुविषयौ पदार्थघटपटादी यस्य तस्मै । पदार्थ इह स्वर्गापूर्वदेवतादिः । ‘रूपादौ विषयः पुमान्’ इति मेदिनीकारः । जगतां हितायोपकारकाय । विश्वस्य भुवनस्य स्थितिरवस्थानम्, प्रलयो नाशः, संभव उत्पत्तिस्तेषां हेतवे । सर्वं वस्तु आत्मा स्वं यस्य तस्मै । सर्वरूपायेत्यर्थः । विजितौ रोषकामौ येन तस्मै । त्रिभुवनस्य प्रभवे ईश्वराय शिवाय कल्याणकारकाय च । अत्र ‘नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च २।३।१६’ इति तुभ्यमिति नमोयोगे उपपदविभक्तिश्चतुर्थी तदर्थ इतरपदार्थैः परिष्क्रियते ॥

उपमारूपकादीनां शब्दार्थोभयभङ्गिभिः ।
साधर्म्योत्पादनं यत्तन्मन्ये परिकरं विदुः ॥ ७५ ॥

उपमेति । उपमादीनां शब्दार्थोभयभङ्गिभिर्यत्साधर्म्योत्पादनं स परिकरः । शब्दश्चार्थश्चोभयं च तेषां भङ्गिभिर्भजनैः ॥

तत्र सशब्दकृत उपमायां यथा—

‘कह कह विरएइ पअं मग्गं पुलएइ छेज्जमाविसइ ।
चोरव्व कई अत्थं लद्धुं दुक्खेण णिव्वहइ ॥ १८९ ॥’
[कथं कथं विरचयति पदं मार्गं प्रलोकते छेद्यमाविशति ।
चोर इव कविरर्थं लब्धुं दुःखेन निर्वहति ॥]

अत्र पदमागच्छेद्यैः शब्दैर्भिन्नार्थैरभिन्नार्थविरचनादिक्रियानिवेशिभिः कविचोरयोरप्रसिद्धमौपभ्यं साधितमिति शाब्दोऽयमौपम्यपरिकरः ॥

कह इत्यादि । ‘कथं कथमपि रचयति । पदं मार्गं प्रलोकते छेद्यमाविशति । चौर इव कविरर्थं लब्धुं दुःखेन निर्वहति ॥’ इह कविरर्थं वाच्यं लब्धुं प्राप्तुं दुःखेन निर्वहति समर्थो भवतीत्यर्थः । चौरसाम्यमाह—कथं कथमपि कष्टसृष्ट्या पदं विभक्त्यन्तरं रचयति, कुत्रकुत्रापि वा पदं रचयति, मार्गं कविवर्त्म प्रलोकते पश्यति । अनेन पथा कविभिः किं गतमित्यनुसंदधातीत्यर्थः । छेद्यं छेदनीयमशुद्धमाविशति । चौर इव । यथा चौरः क्वापि कथमपि पदं व्यवसायं पादं वा रचयति, मार्गं गतागतवर्त्म पश्यति, छेद्यं छेदार्हं स्थानं प्रविशति, अर्थं साधुधनं प्राप्तुं दुःखेन शक्नोति तथेत्यर्थः । अत्र साम्यापादकविशेषणैरुपमा असिद्धापि साधिता ॥