528 ‘असि’ इति क्रियया दीप्यते । ततस्तृतीयपादे ‘त्वयि’ इति रूपान्तरेण युष्मदर्थ आवर्त्यमानः क्रियान्तरेण संबध्यते, चतुर्थपादे पुनरपि तेनैव रूपेणास्त्यर्थेन भवतिना संबध्यत इति; सेयं वृत्तीनामावृत्तिरावलीति दीपकस्यैव भेदो भवति ॥

त्वमित्यादि । परिणताः परिणामिनोऽर्कादयस्त्वयि त्वद्विषय एवं परिच्छिन्नां गिरं वाणीं बिभ्रति धारयन्ति । इह जगति यत्तत्त्वं वस्तु त्वं न भवसि तत्तत्त्वं वयं पुनर्न विद्मो न जानीमः । सर्वात्मकत्वाद्भवस्य । परिच्छिन्नवाणीमाह—त्वमादित्यस्त्वं चन्द्रस्त्वं वायुस्त्वमग्निस्त्वं जलं त्वमाकाशम् । उ हे । त्वं भूमिस्त्वमात्मा चासीति । ‘उ संबोधनशेषोक्त्योः’ इति मेदिनीकारः ॥ अत्र प्रथमार्धे त्वमितिशब्दार्थयोरावृत्तिरसीतिक्रियया दीपिता, तृतीयपादे त्वयीतिरूपान्तरेण विषयत्वेन युष्मदर्थस्त्वमित्येवंरूपो धारणक्रियान्वयी । अन्त्यपादेऽपि त्वमित्येव भवनान्वयीत्यावृत्तीनामावृत्तिरावलीति ॥

संपुटं यथा—

‘णवपल्लवेसु लोलइ घोलइ विडवेसु चलइ सिहरेसु ।
थवइ थवएसु चलणे वसन्तलच्छी असोअस्स ॥ २०३ ॥’
[नवपल्लवेषु लोलति घूर्णते विटपेषु चलति शिखरेषु ।
स्थापयति स्तबकेषु चरणौ वसन्तलक्ष्मीरशोकस्य ॥]

अत्र ‘नवपल्लवेषु— इत्यादिनि ‘अशोकस्य’ इति; ‘लोलति—’ इत्यादीनि ‘वसन्तलक्ष्मीः’ इति पदे द्रव्यवाचिनी संपुटक्रमेण मिथः संबध्यमाने मिथः संबद्धान्येव दीपयतः, तदेतत्संपुटं नाम दीपकस्य भेदः ॥

णवेत्यादि । “नवपल्लवेषु लोलति घूर्णते विटपेषु चलति शिखरेषु । स्थापयति स्तबकेषु चरणौ वसन्तलक्ष्मीरशोकस्य ॥” इहाशोकस्य नवपल्लवेषु वसन्तलक्ष्मीर्लोलति लुठति । तस्य विटपेषु शाखासु घूर्णते, तस्य शिखरेष्वग्रेषु चलति गच्छति, तस्य स्तबकेषु पुष्पगुच्छेषु चरणौ स्थापयति । लोलतीति