531

शब्दस्येति। शब्दार्थयोः परिपाठ्या भणनं क्रमः । शब्दतदर्थतदुभयभेदात्स त्रिधेति विभागः ॥

अत्र शब्दपरिपाटी द्विधा—पदतो वाक्यतश्च । तयोराद्या यथा—

‘तस्याः प्रवृद्धलीलाभिरालापस्मितदृष्टिभिः ।
जीयन्ते वल्लकीकुन्दस्रगिन्दीवरसंपदः ॥ २०७ ॥’

अत्रालापस्मितदृष्टिभिः पदार्थौर्वल्लकी209कुन्दस्रगिन्दीवरसंपदः पदार्था जीयन्त इति शब्दपरिपाट्या भणनम्; सेयं पदतः शब्दपरिपाटी क्रमः ॥

तस्या इत्यादि । तस्या आलापस्मितदृष्टिभिर्वचनेषद्धासालोकनैर्वल्लकीकुन्दस्रगिन्दीवरसंपदो वीणाकुन्दमालानीलाब्जसंपत्तयो जीयन्ते । कीदृशीभिः । उपचितविलासाभिः । अत्र शब्दस्य पदरूपस्य परिपाट्या भणनमिति पदघटितः शाब्दक्रमः ॥

वाक्यतो यथा—

‘इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्क स्तने देयाद्वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः ।
संवादः प्रणवेन यस्य दलता210 कायैकतायां तयो- रूर्ध्वद्वारि211 विचिन्तितेन च हृदि 212ध्यातस्वरूपेण च २०८’

अत्र ‘इन्दुर्मूर्ध्नि शिवस्य', शैलदुहितुर्वक्रो नखाङ्कः स्तने’ इति 213वाच्यार्थवाचिनौ शब्दसमुदायौ क्रमेण ‘ऊर्ध्वद्वारि214 विचिन्तितेव च’, ‘हृदि 215ध्यातस्वरूपेण च’ इति वाक्यार्थद्वयवाचिभ्यां शब्दसमुदायाभ्यां संबध्येते; सेयं वाक्यतः शब्दपरिपाटि क्रमः ॥

इन्दुरित्यादि । विवृतोऽयं संमितत्वगुणे । अत्र वाक्यार्थाभिधायकौ शब्दसमुदायौ तादृशाभ्यां शब्दसमुदायाभ्यां संबद्धाविति वाक्यघटितः शाब्दक्रमः ॥

  1. ‘वल्लक्यादयः पदार्थाः’ ध
  2. ‘लसता’ ख
  3. ‘ऊर्ध्वद्वारविचिन्तितेन’ ख ग
  4. ‘हृदि ध्यातः, स्वरूपेण च’ क ग
  5. ‘चान्यार्थवाचिनौ’ क ख
  6. ‘ऊर्ध्वद्वारविचिन्तितेन’ ख ग
  7. ‘हृदि ध्यातः, स्वरूपेण च’ क ग