532

अर्थपरिपाटी द्विधा—कालतो देशतश्च । तयोराद्या यथा—

‘हस्ते लीलाकमलमलकं बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुतामाननश्रीः ।
चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ २०९ ॥’

अत्र ‘हस्ते’ लीलाकमलमलकं बालकुन्दानुविद्धम्’ इत्याद्यर्थानां शरदादिकालक्रमेण भणनम्; सेयं कालतोऽर्थपरिपाटी क्रमः ॥

हस्ते इत्यादि । यत्र पुर्यां वधूनां हस्ते लीलाकमलम्, अलकं चूर्णकुन्तलं बालकुन्देनानुविद्धं संबद्धम् । लोध्रप्रसवस्य लोध्रपुष्पस्य रजसा धूल्या मुखश्रीः पाण्डुतां श्वेततां नीता । चूडापाशे प्रशस्तशिखायां नूतनकुरबकपुष्पम्, चारु मनोज्ञं शिरीषपुष्पं कर्णे, सीमन्ते नीपं कदम्बपुष्पम् । त्वदुपगमस्त्वदीयागमनं तस्माज्जातम् । इदं सर्वपुष्पविशेषणम् । ‘चूडा शिखायां बाहुभूषणे’ इति मेदिनीकारः। शिखापरस्यापि पाशपदस्य केशपरत्वेमेव । अत्र शरदादिकालक्रमेणार्थानां क्रमादार्थक्रमः ॥

द्वितीया यथा—

‘पायाद्वो रचितत्रिविक्रमतनुर्देवः स दैत्यान्तको यस्याकस्मिकवर्धमानवपुषस्तिग्मद्युतेर्मण्डलम् ।
मौलौ रत्नरुचि216 श्रुतौ परिलसत्ताटंङ्कान्ति217 क्रमा- ज्जातं218 वक्षसि कौस्तुभाभमुदरे नाभीसरोजोपमम् ॥ २१० ॥’

अत्र त्रिविक्रमतोनोर्वैकुण्ठस्य प्रवृद्धिसमये क्रमेणैव मौलिश्रुतिवक्षउदरलक्षणेषु शरीरदेशेषु भास्वन्मण्डलस्य चूडारत्नताटङ्ककौस्तुभनाभ्यम्बुजैर्योऽयमौपम्यलाभः; 219सेयं देशतोऽर्थपरिपाटी क्रमः ॥

  1. ‘रत्नरुचिः’ ग घ
  2. ‘तालङ्ककान्तिः’ ग घ
  3. ‘यातं’ ग घ
  4. ‘उमौपम्यलाभो ग घ