गङ्गेत्यादि । हे गङ्गे देवि, दृशा मां पुनीहि, हे मातर्यमुने, पुनर्दर्शनमस्तु, हे पितः प्रयाग, भवान् स्वाप्रश्नोऽस्तु सुसंवादोऽस्तु । हे भगवन् न्यग्रोध अक्षयवट, मां ध्यास्यसि, स्मरिष्यसि । तमवन्तिनगरीनाथमुज्जियिनीपतिं, भोजराजं नृपं वयं दिदृक्षामहे द्रष्टुमिच्छामः । कीदृशम् । हारखङ्गलताकर्णालंकारैर्विपुलाः पीनबाहुमूल्युक्तवक्षोभुजा यस्य तम् । भवतामेव पुंभावं पुरुषरूपम् । स्वाप्रश्न इति । स्वस्य 535 आ समन्तात् प्रश्नः संवादः । यथा आपृच्छस्वेत्यत्र । वतंसेन कर्णालंकारेण विपुलः स्थूलश्चांसो बाहुमूलं यत्र वक्षसि तत् । ‘वतंसः कर्णपूरे स्यात्’ इति विश्वः । अत्रादरवता वचनरचनेनाभ्यर्च्य प्रार्थनाभाङ्गिरर्थपरिपाटीकृता । तस्यां च गङ्गया हारस्य, यमुनयासिलतायाः, प्रयागेण वतंसविपुलस्थूलांसवक्षसः, न्यग्रोधेन भुजस्य शाब्देन क्रमेण मिथ उपमानोपमेयभावो न्यग्भूत इत्युभयक्रमेऽर्थप्रधानता ॥ इति क्रमालंकारनिरूपणम् ॥