411

अत्र रामदृष्टेर्लक्ष्मणमुखादिविनिवेशिन्याः शोभाद्युपमानमालया प्रतीयमानसादृश्यया विस्तरेणोपमितेर्मालोपमा नामेयं प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥

सोहेति । ‘शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः । कीर्तिरिव पवनतनयमाज्ञेव बलान्यस्य विलगति दृष्टिः ॥’ अस्य रामस्य दृष्टिर्लक्ष्मणमुखं विलगति संबध्नाति । शोभेव दर्शनानन्तरमेव मुखप्रसादात् । हरिपतेः सुग्रीवस्य विस्तीर्णमुरः सा विलगति वनमालेव पौरुषाध्यवसायनिमित्तम्, समस्तवक्षःस्थलविलोकनाद्धवलश्यामलया दृष्ट्या वनमालेव प्रमाणावसरे प्रभुणा सुग्रीवाय प्रसादीकृतेति भावः । पवनतनयं हनूमन्तं विलगति कीर्तिरिव, तस्य ज्ञातपौरुषस्य विकसितया धवलितगगनया दृष्ट्या निरीक्षणं कृतमिति भावः । बलानि विलगति आज्ञेव, तदनन्तरमेवातिबलानां तेषां गमनोद्योगात् । ‘आपादप्रवणां मालां वनमालेति तां विदुः ।’ इति शाश्वतः । मुखादेराधारस्यैव कर्मता । यद्वा ‘उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।’ इति व्युत्पत्त्या विलगतेः सकर्मकता । इह रामदृष्टेः शोभाद्युपमानमालया सूत्रेण ग्रथनमेव, विस्तरेणोपमितेर्मालोपमेयम् । न चेयं बहूपमा; एकस्य धर्मस्य बहुभिरनुपस्थितत्वात् ॥

रसनोपमा यथा—

‘चन्द्रायते शुक्लरुचापि हंसो हंसायते चारुगतेन कान्ता ।
कान्तायते स्पर्शसुखेन वारि वारीयते स्वच्छतया विहायः ॥ २० ॥’

अत्र चन्द्रादीनां शौक्ल्यादिभिरभिधीयमानसादृश्यैर्हंसादिभिर्येयं रसनान्यायेन पश्चाद्वलनया विस्तरवती हेतुमती च प्रत्ययोपमापङ्क्तिस्तथेहैकवाक्यताकरणेन शरद्रमणीयतोयवर्णनमिति सेयं रसनोपमा नाम प्रकृतरूपोपमासु प्रपञ्चोपमाभक्तिः ॥

चन्द्रेति । अथ हंसः श्वेतदीप्त्या चन्द्रायते चन्द्र इवाचरति । प्रिया मनोज्ञगमनेन हंस इवाचरति । वारि जलं स्पर्शसुखेन कान्तेवाचरति । विहायो गगनं निर्मलतया वारीयते जलमिवाचरति । ‘वार्वारि जलम्’ इत्यमरः । ‘पुंस्याकाशविहायसी’ इति च । इह पश्चाद्वलना पूर्वापेक्षतया क्षुद्रघण्टिकाक्रमः प्रपञ्चवत्त्वं रुचेत्यादिहेतुमत्त्वं प्रतीत्युपमाबाहुल्यं च स्फुटमेव । तर्हि प्रकृतरूपता कथं स्यादत