चन्द्रेति । अथ हंसः श्वेतदीप्त्या चन्द्रायते चन्द्र इवाचरति । प्रिया मनोज्ञगमनेन हंस इवाचरति । वारि जलं स्पर्शसुखेन कान्तेवाचरति । विहायो गगनं निर्मलतया वारीयते जलमिवाचरति । ‘वार्वारि जलम्’ इत्यमरः । ‘पुंस्याकाशविहायसी’ इति च । इह पश्चाद्वलना पूर्वापेक्षतया क्षुद्रघण्टिकाक्रमः प्रपञ्चवत्त्वं रुचेत्यादिहेतुमत्त्वं प्रतीत्युपमाबाहुल्यं च स्फुटमेव । तर्हि प्रकृतरूपता कथं स्यादत 412 आह—तथेति । उपमापङ्क्त्याङ्क्त्या चैकवाक्यताविधानेन शरदृतुवर्णनेन प्रकृतरूपेति भावः । (तुरीया चतुर्थी च, ‘तुरणमत्तावाद्यक्षरलोपश्च’ इति (?) छः ॥