415 कुन्दपुष्पवदमलाः । ‘अर्चिर्हेतिः शिखा स्त्रियाम्’ इत्यमरः । पाणिः पद्ममिव नखश्चन्द्र इवेत्यत्र ‘उपमितं व्याघ्रादिभिः सामान्याप्रयोगे २।१।५६’ इति समासः । इह सामान्यस्येवादेरप्रयोगेणाभेदोपचारादुपमानार्थस्तिरोभूत इति गौणीपुरस्कारः । तिरोभूतत्वं च परमार्थतः सन्नपि भेदो न भासत इति, तत्तु समासेनैव कृतम्, अत एव शब्दप्राचुर्याच्छब्दभूयिष्ठता ॥

व्यस्तं यथा—

‘अङ्गुल्यः पल्लवान्यासन्कुसुमानि नखार्चिषः ।
बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी ॥ २६ ॥’

अत्रापि पूर्ववत्पल्लवकुसुमलतावसन्तश्रीशब्दानां गुणवृत्त्याश्रयेणाङ्गुलीनखार्चिर्बाहुवर्णनीयनामिकाभिः सह सामानाधिकरण्यात्सामान्येवादिशब्दाप्रयोगाच्च तिरोभूतेऽप्युपमानार्थे समासो न कृत इत्यसमस्तरूपं नाम प्रकृतरूपकेषु शब्दभूयेष्ठरूपकभेदः ॥

अङ्गुल्य इत्यादि । हे सुन्दरि, त्वं नोऽस्माकं प्रत्यक्षचारिणी दृष्टिविषया पादविहारिणी वा वसन्तस्य श्रीरसि । अभेदोपचारे बीजमाह—तवाङ्गुल्यः पल्लवान्यासन् । नखदीप्तयः पुष्पाण्यासन् । बाहू लते बाहुद्वयं च लताद्वयम् । ‘पल्लवोऽस्त्री किसलयम्’ इत्यमरः । उपमानोपमेयभेदमाह—सामान्येति । इह समासाभावाव्द्यस्तरूपता ॥

समस्तव्यस्तं यथा—

‘स्मितं मुखेन्दौ ज्योत्स्ना ते प्रभाम्बु कुचकुम्भयोः ।
दोर्लतापल्लवे पाणौ पुष्पं सखि नखार्चिषः ॥ २७ ॥’

अत्र मुखेन्दोः स्मितमेव ज्योत्स्ना, कुचकुम्भयोः प्रभैवाम्बु, दोर्लतयोः पल्लवभूते पाणौ नखार्चिष एव पुष्पमिति समस्तानामसमस्तानां च गौणशब्दानामुपमातिरस्कारेण दर्शितत्वादिदं समस्तव्यस्तरूपं नाम प्रकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः ॥

स्मितमित्यादि । हे सखि, तव मुखेन्दौ स्मितमीषद्धासो ज्योत्स्नास्ति । कुचकुम्भयोः प्रभा दीप्तिरम्बु जलम् । बाहुलतायाः पल्लवभूते मणौ नखदीप्तयः