401 प्रसिद्धस्योपमेये समासेनैव प्रतिपादितत्वादियमन्तर्भूतसामान्या नाम समासोपमासु पदोपमाभक्तिः ॥

चन्द्र इति । ‘चन्द्रसदृशं मुखमस्या अमृतसदृक्षश्च मुखरसस्तस्याः । सकचग्रहरभसोज्ज्वलचुम्बनं कस्य सदृशं तस्यः ॥’ कश्चिन्मनोविनोदार्थं वयस्याय कान्ताप्रकर्षं कथयति—चन्द्रेति । कचग्रहे केशपाशग्रहणे यो रभस आवेशस्तेन सहितमुज्ज्वलं मनोज्ञं चुम्बनम् । इहान्तर्भूतं समासेन बोधितं सामान्यसाधर्म्यं सौकुमार्यादिकमित्यन्तर्भूतसामान्या । न श्रूयते चेत्रास्त्येवेत्यत आह—प्रतीयत इति । द्योतकादितीति । सादृश्यस्य सप्रतियोगिकतया तत्प्रत्यायकत्वमेव द्योतकत्वमित्यर्थः । उपमानेति । उपमीयते सादृश्यमानीयतेऽनेनोत्कृष्टगुणेनान्यदित्युपमानमित्यर्थः । उपमेय इति । उपमीयते न्यूनगुणं यत्तदुपमेयमित्यर्थः ॥

अन्तर्भूतोभयार्था यथा—

‘कमलकरा रम्भोरूः कुवलअणअणा मिअङ्कवअणा सा ।
कहं णु णवचम्पअङ्गी मुणालबाहू पिआ तवइ ॥ ३ ॥’
[कमलकरा रम्भोरूः कुवलयनयना मृगाङ्कवदना सा ।
कथं नु नवचम्पकाङ्गी मृणालबाहुः प्रिया 139तपति ॥]

अत्र कमलमिव ताम्रौ, रम्भे इव पीवरौ, कुवलयमिव, श्यामे, मृगाङ्क इव प्रेक्षणीयं, नवचम्पकमिव गौरम्, मृणालमिव कोमलौ करौ, ऊरू, नयने, वदनम्, अङ्गम्, बाहू यस्याः सा तथोक्तेत्यन्यपदार्थेन समासेनैव द्योतकसामान्ययोरुक्तत्वादियमन्तर्भूतेव सामान्या नाम समासोपमासु पदोपमाभाक्तिः ॥

कमलेत्यादि । ‘कमलकरा रम्भोरूः कुवलयनयना मृगाङ्कवदना सा । कथं नु नवचम्पकाङ्गी मृणालबाहुः प्रिया दहति ॥’ इति । ईदृशी कान्ता कथं नु (न) दहति तापयति किंतु तापयत्येव । रम्भे कदल्याविवोरू यस्याः सा । नवचम्पकं चम्पककलिका । इह कमलमिव ताम्रौ करौ यस्याः सेत्यादाविवशब्दो द्योतकः सामान्यं ताम्रत्वादिकं तयोश्च समासेनैवोक्ततयान्तर्भूतोभयार्थेयम् ॥

  1. ‘दहति’ इति टीकासमतः पाठः.