अत्र हतच्छायमित्यादीनामन्तर्गतगुणत्वेन क्रियाविशेषणत्वात् क्रियागुणयोगनिमित्तं निजं प्रकृतिचटुलत्वमपि विगलितमिति गुणयोगनिमित्तं च साम्यं सामान्यविशेषरूपश्चालेख्यप्रदीपदृष्टान्त इति क्रियागुणयोगनिमित्तेयं विशेषत उत्तरा नाम दृष्टान्तोक्तिः साम्यभेदः । अथ दृष्टान्तोक्तेर्दृष्टान्तालंकारस्य च को विशेषः । उच्यते । ‘लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः’ इत्यर्थं प्रति तु न कश्चिद्विशेषः । उक्तिं प्रति पुनरनेको विद्यते । तद्यथा—दृष्टान्तदार्ष्टान्तिकयोर्मित्रे वाक्ये निर्देशो दृष्टान्तालंकारः । एकवाक्ये निर्देशो दृष्टान्तोक्तिः । साध्यधर्मसिद्धये दृष्टान्तालंकारः, साधर्म्य[निमित्त]सिद्धये दृष्टान्तोक्तः । इवाद्यप्रयोगे दृष्टान्तालंकारः, इवादिप्रयोगे तु दृष्टान्तोक्तः । अत एवेयमुभयालंकारः स पुनरर्थालंकार इति ॥