अत्रास्यामपि प्रेमास्ति 958नास्ति वेति जिज्ञासुः 959प्रियः प्रियां केलीगोत्रस्खलनादिना दुनोति । सा च प्रेमवत्यवश्यमस्मै कुप्यति । स चोपलब्धप्रेमा 960दासवदेनां प्रसादयति । अथैषात्मनि प्रेमास्तित्वमवबुध्यते961 । सोऽयं मानसिद्धोऽर्थस्तदनन्तरेऽप्यनुवर्तते ॥

  1. ‘न वे ति’ क ख घ
  2. ‘प्रियः’ नास्ति ग
  3. ‘न दासवदेनां प्रवासयति’ क, ‘तद्दासवदेनां प्रसादयति’ ख
  4. ‘अनुबध्यते’ ख