660 निवृत्तेऽपि स्वार्थे वासनावशात्करुणोऽनन्तरस्य विशेषणं भवति । अस्तु वा प्रथमानुरागादिष्वपि जहत्स्वार्थैव वृत्तिः । नन्वेवं राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति । नैष दोषः । वृत्तौ समर्थाधिकारः क्रियते । सामर्थ्यं च भेदः संसर्ग उभयं वा । तत्र राज्ञ इत्युक्ते 1000सर्वं स्वं प्रसक्तम् । पुरुष इत्युक्ते सर्वः स्वामी प्रसक्तः । इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरूषं निवर्तयत्यन्येभ्यः स्वामिभ्यः;पुरुषोऽपि राजानमन्येभ्यः स्वेभ्यः1001 । एवमस्मिन्नुभयतो व्यवच्छिन्ने यदि राजार्थो निवर्तते, कामं निवर्तताम् । न 1002जातुचित्पुरुषमात्रस्यानयनं भविष्यति । 1003प्राक् च वृत्तेरकृतार्थस्य निवृत्तौ सामर्थ्याभावाद्वृत्तिरेव न स्यात् । वृत्तिनिमित्ता च निवृत्तिस्तस्माददोष इति । तत्र राज्ञः पुरुष इत्यत्र यदा तावदवधृतपरायत्त1004वृत्तिरयं पुरुषो न स्वतन्त्रस्तदा स्वामिसंसर्गस्यावगतत्वात्स्वामिविशेषज्ञानायोपादीयमानो राजशब्दः स्वाम्यन्तरेभ्यः पुरुषं व्यावर्तयति । सोऽयं स्वाम्यन्तरव्यवच्छेदो भेद 1005इत्युच्यते । यदा पुनरनवगतपरायत्तभावस्य पुरुषस्य स्वामिसंबन्धद्योतनाय राजशब्दः प्रयुज्यते तदा विशेषसंसर्गस्य1006 शब्दोपादानत्वादनवकाशो विशेषान्तरसंपात इत्यशब्दा1007 स्वाम्यन्तरनिवृत्तिरवसीयते । यदा त्वर्थान्तरनिवृत्तिं वार्थसंसर्गं 1008वाभिसंधायोपसर्जनपदानि प्रयुज्यन्ते तदा शब्दार्थसामर्थ्ययोः प्रतिपत्तिनिबन्धनयोरभेदापेक्षया1009 भेदसंसर्गसमुदयः सामर्थ्यं भवति । यथा नीलं च तदुत्पलं चेति नीलोत्पलम् । प्रथमश्चासावनुरागश्चेति प्रथमानुराग इति,

  1. ‘सर्वस्वं’ घ
  2. ‘स्वेभ्यः’ क नास्ति
  3. ‘जातु क्वचित्’ क ख
  4. ‘प्राक् प्रवृत्तेः’ ख, ‘प्राक् च प्रवृत्तैः’ ग
  5. ‘यत्र’ ग घ
  6. ‘इति’ ख नास्ति
  7. ‘विशेषसंसर्गं चाभिसंधायोपसर्जनस्य’ ख
  8. ‘अशाब्दी’ क
  9. ‘स्वात्मसंसर्गं च’ क, ‘स्वार्थसंसर्गं च’ ख
  10. ‘अभेदापेक्षायाम्’ क ख ग पुस्तके पाठोऽयं त्रुटितः