050

तत्र

गुणः सुश्लिष्टपदता श्लेष इत्यभिधीयते ।

यथा—

‘उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् ।
तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ७५ ॥’

अत्र भिन्नानामपि पदानामेकापदताप्रतिभासहेतुत्वेन संदर्भस्य सुश्लिष्टत्वादयं श्लेषो नाम शब्दगुणः ॥

एवमिति । तदेवं दोषलक्षणे वृत्ते क्रमप्राप्ता गुणा लक्षयितव्याः । तदेवमोजः प्रसादादयो गुणाः । यमकादयस्त्वलंकारा इति पूर्वप्रसिद्धौ सत्यां विचार्यते । किमेषां मिथो भेदनिबन्धनम्, कथं चालंकारेभ्यो गुणानां पूर्वनिपातः, रसस्य हि दोषाभावादित्रयसंस्कृत एव पदलाभ इत्यस्ति पश्चाद्भावे निबन्धनमिति तत्राह—अलंकृतमपीति । रसावलम्बिनो गुणाः, शब्दार्थावलम्बिनस्त्वलंकारा इति काश्मीरकाः । तदगमकम् । तथा हि—यदि काव्यस्य रसप्रधानात्मकतामाश्रित्यायं विभागः, अलंकारा अपि तर्हि तत्प्रवणा एव । अथ नायं नियमो यत्सर्वत्र रसः प्रधानमिति, तदात्र गुणेष्वपि कथं तदालम्बननियमः । किं चात्र प्रसादादिवत् श्लेषादयोऽपि शब्दार्थगता एव प्रत्यभिज्ञायन्ते तत्कथमयं विभागः । यद्यपि शब्दार्था ज्ञायन्ते, तथापि रसप्रवणा इति चेत् । किमिदं रसप्रवणत्वं, रसाश्रितत्वं तावन्न संभवत्येव । रसप्रतीतिपर्यवसानं च यथाकथंचिदलंकारेष्वपि तुल्यमित्यविचारितरमणीयोऽयं मार्गः । लोकशास्त्रवचनातिगामी कश्चिद्विशेषः शोभापदाभिलप्यो भवन्नस्मिञ्श्रव्यशब्दः शब्दार्शौ विषयीकरोति । ततश्च तथाभूतशोभानिष्पत्तिहेतवो गुणास्तदुत्कर्षहेतवस्त्क्लंकाराः । यदाह—‘काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलंकाराः’ इत्यन्ये, तदपि न । अस्य रसादिवदव्याप्तेः । नहि तेषां रीतिशरीरान्तर्निवेशः कैश्चिदभ्युपगम्यते, तस्मादालंकारिकसमयानुपाती श्लेषाद्यन्यतमो गुणः । जात्याद्यन्यतमश्चालंकार इति विभागः । तत एव च शोभाकारित्वेन गुणानामप्यलंकारपक्षनिक्षेपं करिष्यति । उद्भूतगुणं तु स्फुटालंकारहीनमपि चमत्कारमावहत्येव । यथा—‘का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते । आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥’ यतो गुणयोगो मुख्यस्ततः प्रथममुद्दिष्टो लक्षितश्चैषः । सामान्यगुणस्थितौ गुणा-