056 किंभूतावित्यतो जगतः पितराविति । तेन लक्ष्मीनारायणादिवैधर्म्येण नमस्कार्यत्वम् । एकशेषशब्देनैव मातृशब्दार्थः । स्त्रीपुंसयोरित्यौचित्याद्वागर्थाविवेति । किमर्थं नमस्कुरुत इत्यत्र वागर्थप्रतिपत्तये इति । तदेवं यादृशो यावांश्च विशेषणविशेष्यप्रकारोऽभिमतः स सर्व एव वागित्याद्युपात्तशब्दसमुदायमात्रेण निष्प्रत्यूहमवगम्यत इत्यर्थव्यक्तिशब्दार्थव्याख्यानेन स्फुटयति—अत्रेति । अर्थसमर्पकत्वादित्यनेन शब्दगुणता व्यक्तीकृता ॥

यदुज्ज्वलत्वं बन्धस्य काव्ये सा कान्तिरुच्यते ॥ ६९ ॥

यथा—

‘निरानन्दः कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बो लवमपि लवङ्गे न रमते ।
प्रियङ्गौ नासङ्गं रचयति न चूते विचरति स्मरंल्लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ ८१ ॥’

अत्र बन्धस्य छायावत्वेनौज्ज्वल्यं तदेव च कान्तिरुच्यते ॥

यदुज्ज्वलत्वमिति । किं पुनरिदमुज्ज्वलत्वं नाम । केचिदाहुरनुप्रासबहुत्वमिति, तदसत्—‘तस्याः सुस्राव नेत्राभ्यां वारि प्रणयकोपजम् । कुशेशयपलाशाभ्यामवश्यायजलं यथा ॥’ इत्यादावनुप्रासबहुलता संभवति । एवंविधं हि पुराणच्छायमामनन्ति । कान्तिविपर्ययः पुराणी छाया । यथा—‘व्रजति गगनं भल्लातक्या दलेन सहोपमाम्’ इति । अत एवाह—‘पुराणचित्रस्थानीयं तेन वन्ध्यं कवेर्वचः’ इति । तस्मादप्रहतपदैरारम्भः संदर्भस्यैव कान्तिः । तद्यथा—कुसुमस्य धनुरिति प्रहतम् । कौसुममित्यप्रहतम् । जलनिधाविति प्रहतम् । अधिजलधीत्यप्रहतम् । गुरुत्वमिति प्रहतम् । गौरवमित्यप्रहतमित्यादि । अत एव प्रहतशङ्का । चमत्कारित्वं तु सहृदाह्लादकत्वमस्ति हि तुल्येऽपि वाचकत्वे पदानां कश्चिदवान्तरो विशेषो यमधिकृत्य किंचिदेव प्रयुञ्जते महाकवयो न तु सर्वम् । यथा—पल्लव इति वक्तव्ये किसलयमिति । स्त्रीति वक्तव्ये कान्तेति । कमलमिति वक्तव्ये राजीवमित्यादि । एतदेव महाकविभिरुपेयते । ‘कत्ते मणाम इच्चं सच्चं कविए समं समग्गेसु ।... सीमठेउण मुस्मितम्मि सच्चण वञ्चेअ ॥’ कान्तवर्णानुप्रासोऽपि कान्त एव भवतीति मत्वानुप्रासोत्कटमुदाहरति—निरानन्द इति । अस्ति कुन्दे मधु परं न कमल-