अन्तरिति । यथा करितुरगादिरूपकाणां पाषाणशिलादावभिव्यक्तमवस्थितौ सूक्ष्मरूपता तथा शब्दानां श्रूयमाणानामपि कथमन्यथा वाक्यार्थभावनदशायां शेषनियमेनोन्मेषः । केवलमित्यादौ सृजति—संहरति—शास्तयो धातवः कर्तर्येव भगवद्विषये प्रयुज्यमानाः प्रत्ययान्प्रयोजयन्ति न कर्मणीति वाक्यार्थो यदा भाव्यते तदैवायं सृजति संहरति शास्ति, न तु सृज्यते संह्रियते शिष्यते इति शब्दाः प्रकाशन्ते । एवं स्तौतिर्विपरीतकारकः । अत्र स्तौतिः कर्मण्येव प्रत्ययप्रयोजको न कर्तरीति वाक्यार्थभावनासमय एव नायं किंचित्स्तौति किंतु सर्वैः स्तूयत एवेति शब्दा उन्मिषन्ति । तदेतदाह—अत्र श्रुतावगतेति । यावदेव वाक्यं श्रूयमाणमवगम्यते तस्यैव भावनापल्लवः पश्चादवसीयत इति वटबीजन्यायमुपोद्बलयति । सोऽयं सहृदयप्रतीतिसाक्षिकोऽर्थः ॥