076

अत्र सीतायाः पुरीपरिसरेऽपि कियदस्ति गन्तव्यमिति वचनं शृण्वतो रामस्य शिरीषमृदुतदङ्गावलोकनेनाश्रुणोऽवतारः सौकुमार्यमाह ॥

अनिष्ठुरत्वमिति । सामग्रीसंभवेऽपि चित्तद्रुतिमनासादयन्नीरसः कठोरोऽभिधीयते । अतथाभूतस्तु झटिति तन्मयीभवनयोग्यान्तःकरणः सुकुमारस्तदिदमुक्तमनिष्ठुरत्वमिति । प्राहुरित्यनेन प्रसिद्धिं द्योतयति—सद्य इति । सहगन्तुमुत्सुका कथमेवं सुकुमारप्रकृतिः कान्तारेषु भविष्यसीति वार्यमाणापि हृदयवैमुख्येन पभ्द्यामतित्वरितं गमिष्यामीति स्नेहमूढा त्रिचतुराणि पदानि जवाद्गतवती । अश्रुणः प्रथमावतारो भविष्यदश्रुपरम्पराप्रचारभूतः । सौकुमार्यमाहेति अश्रुपातेनानुभावाश्रुनिमित्तभूता चित्तद्रुतिः करतलामलकवत्प्रकाश्यते ॥

अर्थव्यक्तिः स्वरूपस्य साक्षात्कथनमुच्यते ।

यथा—

‘पृष्ठेषु शङ्खशकलच्छविषु च्छदानां रेखाभिरङ्कितमलक्तकलोहिताभिः9 ।
गोरोचनाहरितबभ्रुबहिःपलाश- मामोदते कुमुदमम्भसि पल्वलस्य ॥ १०४ ॥’

अत्र कुमुदस्वरूपस्य साक्षादिव प्रतीयमानत्वेन यत्स्पष्टरूपाभिधानमसावर्थव्यक्तिः ॥

अर्थव्यक्तिरिति । स्वरूपं स्वमसाधारणं कविप्रतिभैकगोचरं चमत्कारिरूपं तस्य साक्षात्कथनम् । कविशक्तिवशात्साक्षात्कारसोदरप्रतीतिजनकपदवत्त्वं संदर्भस्यार्थव्यक्तिनामा गुणः । अर्थो यथोक्तस्तस्य व्यक्तिः प्रत्यक्षायमाणता । जातेर्भेदस्तृतीये वक्ष्यते ॥ 10पृष्ठेष्विति । ईषद्विकस्वरस्य कुमुदस्य किंचिद्विघटमानवहिः पलाशसंबन्धिषु शीतातपासंपर्कादत्यन्तविशदानां दलानां पृष्ठानि पाकलोहितरेखाङ्कितानि दृश्यन्ते । अत एवामोदते किंचिदुद्भिदुरेण मुखेन गर्भपिण्डितमामोदं मुञ्चतीति ॥

कान्तिर्दीप्तरसत्वं स्यात् ।
  1. ‘लोहिनीभिः’ ग
  2. ‘पृष्ठेऽपि’ इत्यादर्शपाठः