010
दूरे यस्यार्थसंवित्तिः क्लिष्टं नेष्टं हि तत्सताम् ।

यथा—

‘विजितात्मभवद्वेषिगुरुपादहतो जनः ।
हिमापहामित्रधरैर्व्याप्तं व्योमाभिनन्दति ॥ ९ ॥’

अत्र विना गरुत्मता जित इन्द्रस्तस्यात्मभवोऽर्जुनस्तस्य द्वेषी कर्णस्तस्य गुरुः सूर्यस्तत्पादैरभिहतो लोक आकाशमभिनन्दति । कीदृशम् । हिमापहो वह्निस्तस्यामित्रो जलं तद्धारयन्ति ये मेघास्तैर्व्याप्तमिति व्यवहितार्थप्रत्ययं क्लिष्टमेतत् ॥

दूर इति । दूरं चिरं विलम्ब इत्यनर्थान्तरम् । क्लेशो द्विविधः—पदविषयः, वाक्यविषयश्च । आद्यः सामान्यशब्दस्य प्रकरणादिकमनपेक्ष्य क्वचिदभिप्रेतविषये प्रयोगः । तथा सति वाचकतायामपि झटिति प्रतिपत्तिर्न भवति । किं तु परस्परान्वयपर्यांलोचनया चिरेणेति विरसत्वम् । यदाह—‘नेष्टं हि तत्प्रसितानाम्’ इति, अयमेवार्थो व्यवधानपदेन वामनादिभिरुक्तः । द्वितीयस्तु व्याकीर्णादिपदेनान्यथा वक्ष्यते—विजितेति । विशब्देन पक्षिसामान्यवचनेन तद्विशेषो गरुडात्मा विवक्षितः । तज्जितोऽपि विशेष एव । एवमन्यत्रापि । न चात्रापि किंचिज्झटिति प्रतीत्यनुगुणं नियमकारणमस्तीति युक्तमेव व्यवधानम् । हिमापहो वह्निरिति हन्तेर्डप्रत्यये रूपम् । तथा च चन्द्रगोमी डप्रकरणे ‘हन्तेर्डः’ इत्येव सूत्रितवान् । हिमापहो वहिरिति क्विपि व्यभिचारं दृष्ट्वा ‘ब्रह्मभ्रूण-’ इत्यादि सूत्रितं चन्द्रगोमिना ॥

गूढार्थमप्रसिद्धार्थं प्रयोगं ब्रुवते बुधाः ॥ ११ ॥

यथा—

‘सहस्रगोरिवानीकं भवतो दुःसहं परैः ।
हरेरिव तवाभान्ति नान्यतेजांसि तेजसि ॥ १० ॥’

सहस्रगुशब्देन सहस्राक्ष उक्तः । न च गोशब्दस्याक्ष्णि भूयसी प्रसिद्धिः । हरिशब्देन च सहस्त्रांशुः सोऽपि न तेन नाम्ना बहुभिरुच्यत इति गूढत्वम् ॥