दूर इति । दूरं चिरं विलम्ब इत्यनर्थान्तरम् । क्लेशो द्विविधः—पदविषयः, वाक्यविषयश्च । आद्यः सामान्यशब्दस्य प्रकरणादिकमनपेक्ष्य क्वचिदभिप्रेतविषये प्रयोगः । तथा सति वाचकतायामपि झटिति प्रतिपत्तिर्न भवति । किं तु परस्परान्वयपर्यांलोचनया चिरेणेति विरसत्वम् । यदाह—‘नेष्टं हि तत्प्रसितानाम्’ इति, अयमेवार्थो व्यवधानपदेन वामनादिभिरुक्तः । द्वितीयस्तु व्याकीर्णादिपदेनान्यथा वक्ष्यते—विजितेति । विशब्देन पक्षिसामान्यवचनेन तद्विशेषो गरुडात्मा विवक्षितः । तज्जितोऽपि विशेष एव । एवमन्यत्रापि । न चात्रापि किंचिज्झटिति प्रतीत्यनुगुणं नियमकारणमस्तीति युक्तमेव व्यवधानम् । हिमापहो वह्निरिति हन्तेर्डप्रत्यये रूपम् । तथा च चन्द्रगोमी डप्रकरणे ‘हन्तेर्डः’ इत्येव सूत्रितवान् । हिमापहो वहिरिति क्विपि व्यभिचारं दृष्ट्वा ‘ब्रह्मभ्रूण-’ इत्यादि सूत्रितं चन्द्रगोमिना ॥