082

अत्र मैत्त्र्यादिपदानां शास्त्रार्थसव्यपेक्षत्वाद्गाम्भीर्यम् ॥

शास्त्रार्थ इति । एकपुरुषार्थप्रयोजनकपदार्थव्युत्पादनं विधिनिषेधव्युत्पत्तिफलकं शास्त्रं तदर्थसव्यपेक्षत्वम् । तदुक्तप्रक्रियानिरूपणाधीननिरूपणत्वं वाक्यार्थस्य गाम्भीर्यम् । मैत्रीकरुणामुदितोपेक्षा इति चतस्त्रश्चित्तसंमार्जनाः । अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । चित्तवृत्तिनिरोधो योगः; स एव व्युत्थानहेतुभिरनास्कन्दनीयः सबीजः । सत्त्वं प्रधानम्, पुरुषश्चिद्रूपस्तयोर्भेदः प्रथाख्यातिरिति सांख्यप्रक्रिया । अत्र मैत्र्र्यादिपदानामिति । वाक्यार्थस्यैव यथोक्तरूपत्वे तत्प्रतिपादकपदानामवश्यं तथाभावो भवतीति वैशेषिकाद्भेदो वक्ष्यते ॥

विस्तरोऽर्थविकासः स्यात्

यथा—

‘संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्त्तिरनघा कीर्त्या च सप्ताब्धयः ॥ ११५ ॥’

अत्र विपक्षवधात्सप्ताब्धिव्यापिनी कीर्तिरर्जितेत्येतावतोऽर्थस्य 14बहुविधं विकासितत्वाद्विस्तरः ॥

विस्तर इति । वाक्यार्थस्य पल्लवभूततत्तत्सहृदयचमत्कारिविशेषप्रसारणं संवृतविवृतपटवत् विस्तराख्यो गुणः । विस्तर इव विस्तरः शब्दप्रपञ्चवदित्यर्थः । अन्यथा विस्तार इति स्यात् । संग्रामाङ्गणेत्यादौ तु शत्रुशिरश्छेदात्सप्ताब्धिव्यापिनी त्वया कीर्तिरार्जितेत्येतावान्वाक्यार्थो लौकिकसाधारणतया च चमत्कारास्पदमिति संग्रामाङ्गणसंगतिरेव न तथा यथा वीरमात्रस्योचिता तत्रापि चापसमारोपणमिति काप्युत्साहशक्तिः । अत एव बलवदाश्रयप्रसक्तलुण्टाकवधेन यदवसितं तेनैव तदासादितमिति सोपस्कारकर्तृकर्मप्रपञ्चेन विकासनमेव काव्यपदवीप्राप्तिबीजम् । तदिदमाह—बहुविधं विकासितत्वादिति । नात्र शब्दविकासाधीनः प्रकर्ष इति शब्दविस्तराद्भेदः ॥

संक्षेपस्तस्य संवृतिः ॥ ८५ ॥
  1. ‘बहुधा’ क