083

यथा—

‘श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि 15परेषां न समाचरेत् ॥ ११६ ॥’

अत्र शास्त्रे विस्तरप्रतिपादितस्य धर्मस्य श्लोकार्धेनोक्त16त्वादयमर्थसंकोचः संक्षेपः ॥

संक्षेप इति । तस्येत्यर्थस्य समासे गुणीभूतस्यापि बुध्द्या विभज्य परामर्शः । यथा—‘अथ शब्दानुशासनम् । केषां ? शब्दानामि'ति । अशेषविशेषोपग्राहकपुरस्कारेण वाक्यार्थस्याभिधानं विवृतसंवृतपटवत्संक्षेपः ॥ श्रूयतामिति । अत्र तेन तेन विशेषेण विस्तरतः प्रतिपादयितव्यस्य धर्मस्य यत्किंचिदात्मनः प्रतिकूलमन्यस्य नाचरणीयमिति सामान्येनाभिधानमप्रवृत्तप्रवर्तने प्रगल्भायमानमतिसुन्दरमाभासते । नात्र रचनासंकोचप्रतिष्ठितं काव्यमिति शब्दगुणाद्भेदः ॥

शब्दार्थौ यत्र तुल्यौ स्तः संमितत्वं तदुच्यते ।

यथा—

‘इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वक्रो नखाङ्कः स्तने देयाद्वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः ।
संवादः प्रणवेन यस्य दलता कायैकतायां तयो- रूर्ध्वद्वारविचिन्तितेन च हृदि ध्यातः स्वरूपेण च ॥ ११७ ॥’

अत्र प्रणवलक्षणस्यार्थस्य तुल्यत्वेन यथावद्विभज्य विनिवेशनं संमितत्वम् ॥

शब्दार्थाविति । शब्दस्यार्थौ तयोर्विभज्य विनिवेशनं संमितत्वमिति केचित्, तन्न । शब्दग्रहणवैयर्थ्यप्रसङ्गात् । द्वित्वाविवक्षाप्रसङ्गाच्च ।

‘पल्लविअं विअ करपल्लवेहिं पप्फुल्लिअं व मुणहअच्छेहिम् ।
फलिअंमिव पीणपओहरेहिं अज्जाइ लावण्णम् ॥’17
  1. ‘न परेषाम्’ ख ग
  2. ‘प्रतिपादितत्वात्’ ख
  3. ‘पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितगिव मुग्धाक्षिभ्याम् । फलितमिव पीनपयोधराभ्यामार्याया लावण्यम् ॥’ इति छाया